सामग्री पर जाएँ

श्वेतगुञ्जा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

श्वेतगुञ्जा, स्त्री, (श्वेता गुञ्जा ।) शुक्लगुञ्जा । सादा कु~च इति भाषा । तत्पर्य्यायः । श्वेत- काम्बोजी २ भृण्टिका ३ काकादनी ४ काक- पीलुः ५ चक्रशल्या ६ चूडाला ७ । अस्या गुणाः । तीक्ष्णत्यम् । उष्णत्वम् । तस्या बीजं वान्तिकरम् । तस्याः शिफा शूलविषनाशिनी । तस्याः पत्रं वश्ये शस्तम् । इति राजनिर्घण्टः ॥ अपि च । “श्वेता रक्तोच्चटा प्रोक्ता कृष्णला चापि सा स्मृता । रक्ता सा काकचिञ्ची स्यात् काकनन्ती च रक्तिका ॥ काकादनी काकपीलुः सा स्मृताङ्गारवल्लरी । गुञ्जाद्वयन्तु कश्यं स्यात् वातपित्तज्वरापहम् ॥ मुखशोषभ्रमश्वासतृष्णामदविनाशनम् । नेत्रामयहरं वृष्यं बल्यं कण्डूं व्रणं हरेत् । कृमीन्द्रलुप्तकुष्ठानि रक्ता च धवलापि च ॥” इति भावप्रकाशः ॥ अन्य्यच्च । “गुञ्जा शिखण्डिका ताम्रा रक्तिका काक- शान्तिका । श्वेतान्या चक्रिका चूडा दुमाषा काकपीलुका ॥ युञ्जा केश्या बलकरा रुच्या पित्तकफापहा । नेत्रामयहरा वृष्या हन्ति कण्डुग्रहव्रणान् । कृमीन्द्रलुप्तकुष्ठानि तद्वच्छ्वेतापि शस्यते ॥” इति मदनपालनिर्घण्टः ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

श्वेतगुञ्जा¦ स्त्री कर्म॰। शुभ्रगुञ्जायां राजनि॰। गुञ्जाशब्दे

२५

९ पृ॰ दृश्यम्।

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

श्वेतगुञ्जा/ श्वेत--गुञ्जा f. a white variety of Abrus Precatorius L.

"https://sa.wiktionary.org/w/index.php?title=श्वेतगुञ्जा&oldid=359138" इत्यस्माद् प्रतिप्राप्तम्