श्वेतद्वीपः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
श्वेतद्वीपः, पुं, क्ली, (श्वेतो द्वीपः ।) चन्द्रद्वीपः । स च वैकुण्ठाख्यविष्णुधाम । यथा, -- “श्वेतद्वीपं गतवति त्वयि द्रष्टुं तदीश्वरम् । तत्र हायमभूत् प्रश्नस्त्वं मां यमनुपृच्छसि ॥” इति श्रीभागवते १० स्कन्धे ८७ अध्यायः ॥ अपि च । “एकदा ब्रह्मणो लोकादायान्तं नारदं मुनिम् । पर्य्यटन् रावणो लोकान् दृष्ट्वा नत्वाब्रवीद्वचः ॥ भगवन् ! ब्रूहि मे युद्धं कुत्र सन्ति महाबलाः । योद्धुमिच्छामि बलिभिस्त्वं जानासि जगत्त्रयम् ॥ मुनिर्ध्यात्वा तु सुचिरं श्वेतद्वीपनिवासिनः । महाबला महाकायास्त त्र याहि महामते ॥ विष्णुपूतारता ये वै विष्णुना निहताश्च ये । त एव तत्र संजाता अजेयाश्च सूरासुरैः ॥ श्रुत्वा तद्रावणो वेगान्मन्त्रिभिः पुष्पकेण तान् । याद्धुकामः समागत्य श्वेतद्वीपसमीपतः ॥ तत्प्रभाहततेजस्कं पुष्पकं नाचलत्ततः । त्यक्त्वा विमानं प्रययौ मन्त्रिणश्च दशाननः ॥ प्रविशन्नेव तद्द्वीपं धृतो हस्तेन योषिता । पृष्टश्च त्वं कुतः कोऽसि प्रेषितः केन वा वद ॥ इत्युक्तो लीलया स्त्रीभिर्हसन्तीभिः पुनः पुनः ॥ कृच्छ्राद्धस्ताद्बिनिर्म्मुक्तस्तासां स्त्रीणां दशाननः ॥ आश्चर्य्यमतुल लब्ध्वा चिन्तयामास दुर्म्मतिः । विष्णुना निहतो यामि वैकुण्ठमिति निश्चितः ॥ मयि विष्णुर्यथा कुप्येत्तथा कार्य्यं करोम्यहम् ॥ इति निश्चित्य वैदेहीं जहार विपिनेऽसुरः ॥ ज्ञात्वैव परमात्मानं स जहारावनीसुताम् ॥” इति श्रीब्रह्माण्डपुराणे श्रीमदध्यात्मरामायणे उत्तरकाण्डे ४ अध्यायः ॥ अन्यच्च । “श्वेतां गङ्गां नरः स्नात्वा यः पश्येत् श्वेत- माधवम् । मत्स्याक्षं माधवञ्चैव श्वेतद्वीपं स गच्छति ॥” इति तीर्थचिन्तामणिः ॥
