सामग्री पर जाएँ

श्वेतवाहनः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

श्वेतवाहनः, पुं, (श्वेतं वाहनं यस्य ।) चन्द्रः । अर्ज्युनः । इति मेदिनी ॥ (यथा, महाभारते । ४ । ४२ । १५ । “श्वेताः काञ्चनसन्नाहा रथे युज्यन्ति मे हयाः । संग्रामे युध्यमानस्य तेनाहं श्वेतवाहनः ॥”) मकरः । इति शब्दरत्नावली ॥ (राजाधि- देवस्य पुत्त्रः । स तु विदूरथस्य पौत्त्रः । यथा, हरिवंशे । ३८ । २ । “राजाधिदेवः शूरश्च विदूरथसुतोऽभवत् । राजाधिदेवपुत्त्रास्तु जज्ञिरे वीर्य्यवत्तराः । दत्तातिदत्तौ बलिनौ पानश्वः श्वेतवाहनः ॥”)

"https://sa.wiktionary.org/w/index.php?title=श्वेतवाहनः&oldid=172937" इत्यस्माद् प्रतिप्राप्तम्