श्वोवसीयसम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
श्वोवसीयसम्, क्ली, (वसुशब्दः प्रशस्तवाची तत ईयसुनि वसीयः । श्वः शब्द उत्तरपदार्थ- प्रशंसामाशीर्विषयतामाह । मयूरव्यं सकादि- त्वात् समासः । “श्वसो वसीयःश्रेयसः ।” ५ । ४ । ८० इति अच् ।) कल्याणम् । यथा, -- “श्वःश्रेयसं शुभशिवे कल्याणं श्वोवसीयसं श्रेयः । क्षेमं भावुकभविककुशलप्रङ्गलभद्रमद्रश- स्तानि ॥” इति हेमचन्द्रः ॥ तद्वति, त्रि ॥
