षट्चक्र

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षट्चक्रम्, क्ली, (षण्णां चक्राणां समाहारः ।) शरीरस्थपद्माकारषट्प्रकारचक्रम् । यथा, -- “सप्तपद्मानि तत्रैव सन्ति लोका इव प्रभो । गुदे पृथ्वीसमं चक्रं हरिद्वर्णं चतुर्द्दलम् ॥ लिङ्गेतु षड्दलं चक्रं स्वाधिष्ठानमिति स्मृतम् । त्रिलोकवह्निनिलयं तप्तचामीकरप्रभम् ॥ नाभौ दशदलं चक्रं कुण्डलिन्या समन्वितम् । नीलाञ्जननिभं ब्रह्मस्थानं पूर्व्वकमन्दिरम् ॥ मणिपूराभिधं स्वच्छं जलस्थानं प्रकीर्त्तितम् । उद्यदादित्यसंकाशं हृदि चक्रमनाहतम् ॥ कुम्भकाख्यं द्बादशारं वैष्णवं वायुमन्दिरम् । कण्ठे विशुद्धशरणं षोडशारं पुरोदयम् ॥ शाम्भवीवरचक्राख्यं चन्द्रबिन्दुविभूषितम् । षष्ठमाज्ञालयं चक्रं द्विदलं श्वेतमुत्तमम् ॥ राधाचक्रंमिति ख्यातं मनःस्थानं प्रकीर्त्तितम् । सहस्रदलमेकार्णं परमात्मप्रकाशकम् ॥ नित्यज्ञानमयं सत्यं सहस्रादित्यसन्निभम् । षट् चक्राणीह भेद्यानि नैतद्भेद्यं कथञ्चन ॥” इति पाद्मे स्वर्गखण्डे २७ अध्यायः ॥ * ॥ अन्यच्च । “तत्त्वस्वरूपमेकं तत् षट्चक्रं प्रतिलक्षयेत् । षट्चक्रेऽपि महामायां क्षणं ध्यात्वा प्रयत्नतः ॥ लम्बयेन्मूलमन्त्रेण आदिषोडशचक्रकम् । आदिषोडशचक्रस्थां साधकानन्दकारिणीम् ॥ चिन्तयन् साधको देवीं जपकर्म्म सभारभेत् । भ्रुवोरुपरि नाडीनां त्रयाणां प्रान्त उच्यते । तत्प्रान्तं त्रिपथस्थानं षट्कोणं चतुरङ्गुलम् ॥ रक्तवर्णन्तु योगज्ञैराज्ञाचक्रमितीरितम् ॥ कण्ठे त्रयाणां नाडीनां वेष्टनं विद्यते नृणाम् । सुषुम्नेडापिङ्गलानां षट्कोणं तत् षडङ्ग्रुलम् ॥ तत् षट्चक्रमिति प्रोक्तं शुक्लं कण्ठस्य मध्य- गम् । त्रयाणामथ नाडीनां हृदये चैकता भवेत् ॥ तत्स्थानं षोडशास्रं स्यात् सप्ताङ्गुलप्रमाणतः । तत् पीतमुक्तं योगज्ञैरादिषोडशचक्रकम् ॥ ध्यानानामथ मन्त्राणां चिन्तनस्य जपस्य च । यस्मादाद्यञ्च हृदयं तस्मादादीति गद्यते ॥” इति कालिकापुराणे ५४ अध्यायः ॥ * ॥ अपरञ्च । “मूलाधारे त्रिकोणाख्ये इच्छाज्ञानक्रियात्मके मध्ये स्वयम्भुलिङ्गन्तु कोटिसूर्य्यसमप्रभम् ॥ तदूर्द्धे कामबीजन्तु क-ल-शान्तीन्दूनादकम् । तदूर्द्धे तु शिखाकारा कुण्डली ब्रह्मविग्रहा ॥ तद्धाह्ये हेमवर्णाभं व-स-वर्णचतुर्द्दलम् । द्रुतहेमसमप्रख्यं पद्मं तत्र विभावयेत् ॥ तदूर्द्धेऽग्निसमप्रख्य षड्दलं हीरकप्रभम् । वादिलान्तषडर्णेन युक्ताधिष्ठानसंज्ञकम् ॥ मूलमाधारषट्कानां मूलाधारं ततो विदुः ! स्वशब्देन परं लिङ्गं स्वाधिष्ठानं ततो विदुः ॥ तदूर्द्ध्वे नाभिदेशे तु मणिपूरं महत्प्रभम् । मेघाभं विद्युदाभञ्च बहुतेजोमयं ततः । मणिवद्भिन्नं तत् पद्मं मणिपूरं तथोच्यते ॥ दशभिश्च दलैर्युक्तं डादिफान्ताक्षरान्वितम् । शिवेनाधिष्ठितं पद्मं विश्वलोकैककारणम् ॥ तदूर्द्ध्वेऽनाहतं पद्ममुद्यदादित्यसन्निभम् । कादिठान्ताक्षरैरर्कपत्रैश्च समधिष्ठितम् ॥ तन्मध्ये वाणलिङ्गन्तु सूर्य्यायुतसमप्रभम् । शब्दब्रह्ममयं शब्दोऽनाहतस्तत्र दृश्यते ॥ तेनाहताख्यं पद्मं तत् मुनिभिः परिकीर्त्त्यते । आनन्दसदनं तक्षु पुरुषाधिष्ठितं परम् ॥ तदूर्द्ध्वन्तु विशुद्धाख्यं दलषोडशपङ्कजम् । स्वरैः षोडशकैर्युक्तं धूम्रवर्णं महत्प्रभम् ॥ विशुद्धिं तनुते यस्मात् जीवस्य हंसलोकनात् । विशुद्धं पद्ममाख्यातं आकाशाख्यं महत् परम् आज्ञाचक्रं तदूर्द्ध्वे तु आत्मनाधिष्ठितं परम् । आज्ञासंक्रमणं तत्र गुरोराज्ञेति कीर्त्तितम् ॥ कैलासाख्यं तदूर्द्धे तु बोधनीन्तु तदूर्द्धतः । एवञ्च शिवचक्राणि प्रोक्तानि तव सुव्रत ॥ सहस्राराम्बुजं बिन्दुस्थानं तदूर्द्ध्वमीरितम् । इत्येतत् कथितं सर्वं योगमार्गमनुत्तमम् ॥” इति तन्त्रसारः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षट्चक्र¦ न॰ षणां चक्राणां समाहारः पात्रादि॰। तन्त्रो-क्तेषु देहस्येषु सुपुम्णानाडीतध्यवर्त्तिषु द्विदलचतुर्दला-दिषु षट् सु पद्मेषु चक्शब्दे

२८

०८ पृ॰ दृश्यसु। तद-घिकृच कृतोग्रन्थः अण् तस्य लुक्।

२ षट्{??}कप्रति-पादिकग्रन्धगेवे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षट्चक्र¦ n. (-क्रं) The six mystical circles of the body, (in Tantra.)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षट्चक्र/ षट्--चक्र n. sg. the six mystical circles of the body( मूला-धार, स्वा-धिष्ठान, मणिपूर, अन्-आहत, विशुद्ध, आज्ञा-ख्य) Pan5car.

षट्चक्र/ षट्--चक्र n. N. of wk.

"https://sa.wiktionary.org/w/index.php?title=षट्चक्र&oldid=360581" इत्यस्माद् प्रतिप्राप्तम्