षट्त्रिंशन्मतम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षट्त्रिंशन्मतम् क्ली, (षट्त्रिं शतस्तत्संख्यकधर्म्म- शास्त्रकारिणां मुनीनां मतम् ।) षडधिकत्रिंश- त्सङ्ख्यकधर्म्मशास्त्रप्रयोजकमुनीनामभिप्रायः । यथा । तथा च षट्त्रिंशन्मतम् । इति तिथि स्वरूपकथने तिथ्यादितत्त्वम् । तेषां नामानि यथा, -- “मनुर्विष्णुर्यमो दक्षः अङ्गिरोऽत्रिबृहस्पती । आपस्तम्बश्चोशना च कात्यायनपराशरौ ॥ वशिष्ठव्याससंवर्त्ता हारीतगोतमावपि । प्रचेताः शङ्खलिखितौ याज्ञवल्क्यश्च काश्यपः ॥ शातातपो लोमशश्च जमदग्निः प्रजापतिः । विश्वामित्रपैठीनसी बौधायनपितामहौ ॥ छागलेयश्च जावालो मरीचिश्च्यवनो भृगुः । ऋष्यशृङ्गो नारदश्च षट्त्रिंशत् स्मृति- कारकाः ॥ एतेषान्तु मतं यत्तु षट्त्रिंशन्मतमुच्यते ॥” इति शङ्खलिखितौ ॥

"https://sa.wiktionary.org/w/index.php?title=षट्त्रिंशन्मतम्&oldid=173001" इत्यस्माद् प्रतिप्राप्तम्