षट्प्रज्ञः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षट्प्रज्ञः, पुं, (षट्सु रसेषु प्रज्ञा यस्य ।) कामुकः । यथा, -- “षिड्गौ व्यलीकः षट्पज्ञः कामकेलिर्व्विदूषकः पीठकेलिः पीठमर्द्दो भविलश्छिदुरो विटः ॥” इति त्रिकाण्डशेषः ॥ (षट्सु धर्म्मादिषु प्रज्ञा यस्य ।) धर्म्मादि- शास्त्रविज्ञः । यथा, -- “धर्म्मार्थकाममोक्षेषु लोकतत्त्वार्थयोरपि । षट्सु प्रज्ञास्ति यस्योच्चैः स षट्प्रज्ञ इति स्मृतः ॥” इति च त्रिकाण्डशेषः ॥

"https://sa.wiktionary.org/w/index.php?title=षट्प्रज्ञः&oldid=173012" इत्यस्माद् प्रतिप्राप्तम्