षड्गवम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षड्गवम्, त्रि, (षट् गावो यत्र । सम्यसे अच् ।) गोषट्कयुक्तहलादि । यथा, -- “अष्टागवं धर्म्म्यहलं षड्गवं जीविकार्थिनाम् । चतुर्गवं नृशंसानां द्विगवं ब्रह्मघातिनाम् ॥” इत्याह्निकाचारतत्त्वम् ॥ * ॥ प्रत्ययविशेषः । (सतु । “प्रकृत्यर्थस्य षट्त्वे षड्गवच् ।” ५ । २ । २९ । इत्यस्य वार्त्तिकोक्त्या भवति ॥) यथा, -- “पशुभ्यो गोयुगं युग्मे परं षट्त्वे तु षड्गवम् ॥” इति हेमचन्द्रः ॥ (यथा च महाभारते । ८ । ३८ । ६ । “अन्यं तस्मै वरं दद्यां सौवर्णं हस्तिषड्गवम् ॥”) षण्णां गवां समाहारः । इति द्विगुसमासनिष्प- न्नम् । तत्र, क्ली ॥

"https://sa.wiktionary.org/w/index.php?title=षड्गवम्&oldid=173035" इत्यस्माद् प्रतिप्राप्तम्