षड्जः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षड्जः, पुं, (षड्भ्यः स्थानेभ्यः जायते इति । जन + डः ।) तन्त्रीकण्ठोत्थितस्वरविशेषः । इत्यमरः ॥ अस्य व्युत्पत्तिर्यथा, -- “नासां कण्ठमुरस्तालु जिह्वां दन्तांश्च संश्रितः । षड्भ्यः संजायते यस्मात् तस्मात् षड्ज इति स्मृतः ॥” स च मयूरस्वरतुल्यस्वरः । यथा, -- “षड्जं रौति मयूरो हि गावो नर्द्दन्ति चर्षभम् । अजा विरौतिगान्धारं क्लौञ्चो नदति मध्यमम् ॥” इति भरतः ॥ (अस्मिन् चतस्रः श्रुतयो वसन्ति । यथा, सङ्गीत- दपणे । ५३ । ‘तीव्रा कुमुद्वती मन्दा छन्दोवत्यस्तु षड्जगाः ॥’) तानसेनमते सप्तस्वराणां मध्ये प्रथमस्वरोऽयम् । स्वरज् इति लोके ख्यातः । अस्योच्चारणस्थानं कण्ठः । अयं विप्रवर्णः । अस्यार्च्चिकं नाम । अर्थात् एकस्वरमिलितः । सर्व्वस्वरापेक्षया क्षुद्रस्वरोऽयम् । अस्य ताल एकः । अस्याष्टौ भेदा भवन्ति । इति सङ्गीतशास्त्रम् ॥

"https://sa.wiktionary.org/w/index.php?title=षड्जः&oldid=173041" इत्यस्माद् प्रतिप्राप्तम्