सामग्री पर जाएँ

षड्भुजः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

षड्भुजः, त्रि, (षट् भुजा यस्य ।) षढस्तयुक्तः । यथा, -- “भीमस्त्रिपादस्त्रिशिराः षड् भुजो नवलोचनः । भग्नप्रहरणो रौद्रः कालान्तकयमोपमः ॥” इति ब्रह्मवैवर्त्तपुराणे माहेश्वरज्वररूपम् ॥ (यथा च महानिर्व्वाणतन्त्रे । ४ । १७ । “चतुर्भुजा त्वं द्विभुजा षड्भुजाष्टभुजा तथा । त्वमेव विश्वरक्षार्थं नानाशस्त्रार्थधारिणी ॥”) चैतन्यदेवे, पुं, । स तु पुरुषोत्तमक्षेत्रे षड्भुजो भूत्वा श्रीजगन्नाथदेवशरीरे लीनोऽभूत् । इति लोकप्रसिद्धिः ॥

"https://sa.wiktionary.org/w/index.php?title=षड्भुजः&oldid=173048" इत्यस्माद् प्रतिप्राप्तम्