सामग्री पर जाएँ

षड्रसः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

षड्रसः, पुं, (षट्प्रकारो रसः ।) मधुरादि- षट्प्रकाररसः । यथा, -- “मधुरो लवणस्तिक्तः कषायोऽम्लः कटुस्तथा । सन्तीति रसनीयत्वादन्नाद्ये षडमी रसाः ॥” एषां नामलक्षणे । “मधुरं गौल्यमित्याहुरिक्ष्वादौ स च लक्ष्यते । लवणस्तु पटुः प्रोक्तः सैन्धवादौ स दृश्यते ॥ तिक्तस्तु पिचुमर्द्दादौ व्यक्तमासाद्यते रसः । कषायस्तुवरस्तूक्तः स च पूगीफलादिषु । कटुस्तु क्षारसंज्ञः स्यान्मरीचादौ स चेष्यते ॥” इति राजनिर्घण्टः ॥ एषां गुणास्तत्तच्छब्दे द्रष्टव्याः ॥

"https://sa.wiktionary.org/w/index.php?title=षड्रसः&oldid=173051" इत्यस्माद् प्रतिप्राप्तम्