षद
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
षद, ऌ ज औ श विषादे । शरणे । गतौ । इति कविकल्पद्रुमः ॥ (तुदा०-पर०-सक०-विषादे अक०-अनिट् ।) ऌ, असदत् । ज, सादः सदः । औ असात्सीत् । श, सीदती सीदन्ती । विषाद आकुलीभावः । सीदति राधा रासगृहे । शरणं हिंसा । इति दुर्गादासः ।
षद, क गतौ । आङ्पूर्व्वोऽयम् । इति कविकल्प- द्रुमः ॥ (चुरा०-पर०-सक०-सेट् ।) मूर्द्धन्यादि । क, आसादयति । इति दुर्गादासः ॥
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
षद¦ गतौ चु॰ उभ॰ सक॰ सेट्। सादयति ते असीषदत्।
षद¦ विषादे आकुलीभावे अक॰ हिंसायां गतौ च सक॰ तु॰ प॰अनिट्। सीदति ऌदित् असदत्। ज्वला॰। सदः सादः।