सामग्री पर जाएँ

षष्टिकः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

षष्टिकः, पुं, (षष्टिरात्रेण पच्यन्ते इति । “षष्टिकाः षष्टिरात्रेण पच्यन्ते ।” ५ । १ । ९० । इति कन्- प्रत्ययेन निपातितः ।) धान्यविशेषः । षष्टि- रात्रेण पच्यते षाटिया इति स्वामिसुभूती । इत्यमरभरतौ ॥ तत्पर्य्यायः । षष्टिशलिः २ षष्टिजः ३ स्निग्धतण्डुलः ४ षष्टिवासरजः ५ । अस्या गुणाः । “गौरो नीलः षष्टिकोऽयं द्विधा स्या- दाद्यो रुच्यः शीतलो दोषहारी । बल्यः पथ्यो दीपनो वीर्य्यवृद्धिं दत्ते तस्मात् किञ्चिदूनो द्वितीयः ॥” इति राजनिर्घण्टः ॥ षष्टिसंख्याक्रीते, त्रि ॥

"https://sa.wiktionary.org/w/index.php?title=षष्टिकः&oldid=173089" इत्यस्माद् प्रतिप्राप्तम्