षष्टिसंवत्सराः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
षष्टिसंवत्सराः, पुं, (षष्टिगुणिताः संवत्सराः ।) प्रभवादिषष्टिसंख्यकवर्षम् । यथा, -- रक्ते संवत्सरे देवि क्रूरबुद्धिर्नराधिपः । मानवाः क्रूरचेष्टाश्च सग्रामे रुधिरंभवेत् ॥ ५७ ॥ दुर्भिक्षं मरणं घोरं धान्यौषधिप्रपीडनम् । पापरोगो भवेद्देवि रक्ताख्येऽमरवन्दिनि ॥ ५८ ॥ रोगो मरणदुर्भिक्षं विरोधो बहुसङ्कुलम् । क्रोधे तु विषमं सर्व्वं समाख्यातं हरप्रिये ॥ ५९ मेदिनी लभते देवि सर्व्वभूतं चराचरम् । देशभङ्गश्च दुर्भिक्षं क्षये संक्षीयते प्रजा ॥ सौराष्ट्रे मालवे देशे दक्षिणे कोङ्कणे तथा । दर्भिक्षं जायते घोरं क्षये संवत्सरे प्रिये ॥ कौमुदीनर्म्मदाद्याश्च यमुनानर्म्मदातटम् । विन्ध्यायां सैन्धवञ्चापि विनश्यति न संशयः ॥ सिंहलं मध्यदेशञ्च कालञ्जरं तथैव च । क्षये क्षयन्ति सर्व्वाणि नान्यथा वरवर्णिनि ॥” ६० इति ज्योतिस्तत्त्वम् ॥
