षह
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
षह, ज ङ शक्तौ । इति कविकल्पद्रुमः ॥ (भ्वा०- आत्म०-सक०-सेट् ।) इहापि शक्तिः क्षमा । ज, साहः सहः । ङ, अन्यायं सहते नासौ । इति हलायुधः । इति दुर्गादासः ॥
षह, य कि शक्तौ । इति कविकल्पद्रुमः ॥ (दिवा० चुरा०-भ्वा०-च-पर०-सक०-सेट् ।) शक्तिरिह दैवादिकस्य शकधातो रूपंतेन क्षमा इत्यर्थः । य, सह्यति दुःखं लोकः सहत इत्यर्थः । कि, साहयति । स एवायं नागः सहति कलभेभ्यः परिभवम् । इति दुर्गादासः ॥
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
षह¦ क्षमायां वा चु॰ उभ॰ पक्षे दि॰ पर॰ सक॰ सेट्। साहयति ते सह्यति असीषहत् असहीत्।
षह¦ क्षमायां भ्वा॰ ष्मा॰ सक॰ सेट्। सहते असहिष्ट ज्वला॰। सह साहः।
“तीषसहेति” पा॰ तकारादावर्द्धधातुके वाइट्। सोढा सहिता। सहितव्यः सोढव्यः। क्त। सोढइत्येव। तत्र पक्षो निमित्ते सति न षत्वम् परिसोढाइत्येव पक्षे परिषहितेत्यादौ षत्वम्।
