सामग्री पर जाएँ

षाड्गुण्यम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

षाड्गुण्यम्, क्ली, (षड्गुणा एव । “चातुर्वर्ण्या- दीनां स्वार्थे ।” ५ । १ । १२४ । इत्यस्य वार्त्ति- कोक्त्या ष्यञ् ।) राज्ञां राज्यरक्षणे उपायाः षट् । यथा । सन्धानासनं सन्धिं कृत्वा अव स्थानम् १ । यात्रासन्धानं युद्धार्थयानम् २ । विगृह्यासनं वैरं कृत्वावस्थानम् ३ । यात्रां संपरिगृह्यासनं शत्रोर्भयप्रदर्शनार्थं यानं प्रदर्श्य स्वस्थाने अवस्थानम् ४ । द्वैधीभावः उभयत्र सन्धीकरणम् ५ । अन्येषां संश्रयः दुर्गादेर्म्महा- राजस्य वा आश्रयः ६ । इति महाभारते राजधर्म्मः ॥ (यथा, माघे । २ । ९३ । “षाड्गुण्यमुपयुञ्जीत शक्त्यपेक्षं रसायनम् । भवन्त्यस्यैवमङ्गानि स्थास्नूनि बलवन्ति च ॥”) षाण्मातुरः, पुं, (षण्णां मातॄणामपत्यमिति । “मातुरुत्संख्यासंभद्रपूर्व्वायाः ।” ४ । १ । ११५ । इति अण् । उकारश्चान्तादेशः ।) कार्त्तिकेयः । इत्यमरः ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

षाड्गुण्यम् [ṣāḍguṇyam], [षड् गुणा एव ष्यञ्]

The collection of six qualities.

Six expedients to be used by a king, six measures of royal policy; षाड्गुण्यसमुद्देशः Kau. A.6; षाड्गुण्यमुपुञ्जीत शक्त्यपेक्षी रसायनम् Śi.2.93; see under गुण also; षाड्गुण्यस्य प्रयोगेण तत्तन्मन्त्रबलेन च Śiva B.11.3.

Multiplication of anything by six.

Six properties. -Comp. -प्रयोगः employment of the six epedients or measures of royal policy.

"https://sa.wiktionary.org/w/index.php?title=षाड्गुण्यम्&oldid=363094" इत्यस्माद् प्रतिप्राप्तम्