षिध
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
षिध, गत्याम् । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०- सक०-सेट् ।) सेधति । निष्ठायां सिधितः । इति दुर्गादासः ॥
षिध, उ गत्याम् । इति कविकल्पद्रुमः ॥ (भ्वा०- पर०-सक०-सेट् । क्वा वेट् ।) सेधति । उ, मेधित्वा सिद्ध्वा । क्वावेट्त्वान्नेम् ङीश्वीति इमो निपेधे मिद्धः । इति दुर्गादासः ॥
षिध, उ य औ सिद्धौ । इति दुर्गादासः ॥ (दिवा०-पर०-अक०-अनिट् । क्वावेट् ।) उ, सेधित्वा सिद्ध्वा । य, सिध्यति । औ, असैत्- सीत् । अस्मात् पुषादित्वान्नित्यं ङ इत्यन्ये । सिद्धिर्निष्पत्तिः । सिध्यति घटो निष्पन्नः स्यात् इत्यर्थः । इति दुर्गादासः ॥
षिध, ऊ शिवे । शास्त्रे । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-शिवे अक०-अनुशासने सक०- वेट् ।) मूर्द्धन्यादिः । ऊ, असेधीत् असैत्- सीत् । शिवं मङ्गलम् । तदाकर्म्मकः । सिद्ध्वो वर्णसमाम्नाय इति कातन्त्रस्याद्यसूत्रम् । शास्त्र- मनुशासनम् । सेधति शिष्यं गुरुः । इति दुर्गा- दासः ॥
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
षिध¦ माङ्गल्ये अक॰ शसने सक॰ उदित् वेट्। सेधति असेधीत्--असैत्सीत्। सिद्धः।
षिध¦ गतौ भ्वा॰ पर॰ सक॰ सेट्। सेधति असेधीत् सेधितः।
षिध¦ सिद्धौ दिवा॰ पर॰ अक॰ अनिट् क्त्वा वेट्। सिध्यतिअसैत्सीत् णिचि साधयति। सिषाधयिषति। आ + राजाज्ञयाऽवरोधे सक॰। आसेधः। उत् + उच्चतायाम् अक॰। उत्सेधः। नि + निवारणे सक॰। निषेधः। परि + निवारणे सक॰। परिषेधः। प्रति + निवारणे सक॰। प्रतिषेधः। वि + आ + विशेषेण निषेधे। व्याषेधः। वि + प्रति + विरुद्धत्वे व्याघाते। विप्रतिषेधः।
