षूद
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
षूद, क्षणने । इति प्राञ्चः । (भ्वा०-पर०-सक० सेट् ।) क्षणनमवदारणं हिंसोपलक्षणमिति रमानाथेन व्याख्यातम् । इति दुर्गादासः ॥
षूद, क आश्रुतिहत्योः । निरासे । इति कविकल्प द्रुमः ॥ (चुरा०-पर०-सक०-सेट् ।) आश्रुति- रङ्गीकारः । क, सूदयति धनं विप्राय दातुं दाता । रमानाथस्तु आस्रवण इति दन्त्यसकारं पठित्वा सूदयति मदिरा भाण्डात् क्षरति इत्यर्थ इत्याह । इति दुर्गादासः ।
षूद, ङ निरासे । इति कविकल्पद्रुमः ॥ (भ्वा०- आत्म०-सक०-सेट् ।) षष्ठस्वरी । ङ, सूदते । निरासो निःक्षेपः । इति दुर्गादासः ॥
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
षूद¦ निवारणे भ्वा॰ आ॰ सक॰ सेट्। सूदते असूदिष्ट।
षूद¦ मारणे भ्वा॰ पर॰ सक॰ सेट्। सूदति असूदीत्।
षूद¦ क्षरणे अक॰ प्रतिज्ञायां निरासे च सक॰ अद॰ चु॰ उभ॰सेट्। सूदयति तें असुषूदत् त।
