षोडशकलाः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
षोडशकलाः, स्त्री, (षोडशसंख्यान्विताः कलाः ।) चन्द्रमण्डलस्य षडधिकदशभागाः । तासां नामानि यथा । ततश्चन्द्रस्य अमृतादिषोडश- कलाः पूर्व्ववत् प्राणप्रतिष्ठां कृत्वा पूजयेत् । अं अमृतायै नमः १ । आं मानदायै २ । इं पूषाये ३ । ईं तुष्ट्यै ४ । उं पुष्ट्यै ५ । ऊं रत्यै ६ । ऋं धृत्यै ७ । ॠं शशिन्यै ८ । ऌं चन्द्रिकायै ९ । ॡं कान्त्यै । १० एं ज्योत्- स्नायै ११ । ऐं श्रियै १२ । ॐ प्रीत्यै १३ । औं अङ्गदायै १४ । अं पूर्णाय २५ । अः पूर्णा- मृतायै १६ । नमः सर्व्वत्र । शक्तश्चेत् प्रत्येक- मावाह्य गन्धादिभिः पूजयेत् । इति तन्त्रसारः ॥
