षोडशभूजा
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
षोडशभूजा, स्त्री, (षोडश भूजा यस्याः ।) षोड- शहस्तयुक्ता दुर्गा । यथा, -- “यदा तु षोडशभुजां महामायां प्रपूजयेत् । दुर्गातन्त्रेण मन्त्रेण विशेषं तत्र वै शृणु ॥ कन्यायां कृष्णपक्षस्य एकादश्यामुपोषितः । द्वादष्यामेकभक्तन्तु नक्तं कुर्य्यात् परेऽहनि ॥ चतुर्द्दश्यां महामायां बोधयित्वा विधानतः । गीतवादित्रनिर्षोषैर्नानानैवेद्यवेदनैः ॥ अयाचितं बुधः कुर्य्यात् उपवासं परेऽहनि । एवमेव व्रतं कुर्य्यात् यावद्वै नवमी भवेत् ॥ ज्येष्ठायान्तु समभ्यर्च्च्य मूलेन प्रतिपूजयेत् । उत्तरेणार्च्चनं कृत्वा श्रवणान्ते विसर्ज्जयेत् ॥” इति कालिकापुराणे ५९ अध्यायः ॥
