सामग्री पर जाएँ

षोडशार

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

षोडशारम्, क्ली, (षोडश अराणि इव दलानि यस्य ।) षोडशदलपद्मम् । यथा, तन्त्रे । “आधारे लिङ्गनाभौ हृदयसरसिजे तालुमूले ललाटे द्वे पत्रे षोडशारे द्विदशदशदले द्वादशार्द्धे चतुष्के । वासान्ते वादिलान्ते ड-फ-क-ठ-सहिते कण्ट- देशे स्वरणां हक्षौ कोदण्डमध्ये सकलदलगतं वर्णरूपं नमामि ॥” जलाशयोत्सर्गीयवेदिकोपरिकर्त्तव्यचक्रम् । यथा, मत्स्यपुराणे । “रजसा मण्डलं कुर्य्यात् पञ्चवर्णेन तत्त्ववित् । षोडशारं भवेच्चक्रं पद्मगर्भं चतुर्म्मुखम् ॥ चतुरस्रन्तु परितो वृत्तं मध्ये गुणोत्तरम् । वेद्याश्चोपरि तत् कृत्वा ग्रहाल्लोकपतींस्तथा । विन्यसेन्मन्त्रतः सर्व्वान् प्रतिदिक्षु विचक्षणः ॥” इति जलाशयोत्सर्गतत्त्वम् ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

षोडशार¦ न॰ षोडश अरः कोणास्त इव वा अस्य।

१ षोदशद-तयुक्ते कमले तन्त्रोक्ते

२ यन्त्रभेदे च। तुलादानाद्यङ्गे

२ चक्रभेदे षाडशारचक्रनिर्माणप्रकारस्तु तुलादानादि-पद्धतौ विधानपारिजाताद्युक्तोऽस्माभिर्दर्शितो यथा
“गुरुर्वेदिमध्ये त्रिहस्तदीर्घविस्तारं चतुरस्रं प्रसाध्यतत्र प्राक्पश्चिमयोर्दक्षिणोत्तरतश्च नव नव रेखाः कृत्वाचतुःषष्टिकोष्ठकं मण्डल कुर्य्यात्। तत्र च सर्वाणिकोष्ठानि नवाङ्गुलदीर्घायामानि सम्पद्यन्ते। तत्र बाह्यासुपङ्क्तिषु चतुर्दिक्षु मध्ये पार्श्वयोः द्वे द्वे कोष्ठे परि-त्यज्य चत्वारि कोष्ठानि मार्जयित्वा चतुःकोष्ठानामेकतांसम्पाद्य स्वस्वसंलग्नोपान्त्यपङ्क्तिषु द्वे द्वे मध्यकोष्ठेपार्श्वयोः त्रीणि त्रीणि कोष्ठानि त्यक्त्वा मार्जयेत्तेन चतु-र्दिक्षु षट् षट् कोष्ठात्मकानि चत्वारि द्वाराणि जायन्ते। ततो मध्यस्थानि षोडश कोष्ठानि प्रतिदिशं चत्वारि चत्वारिकोष्ठानि परित्यज्य मार्जयेत्। ततो बाह्यपङ्क्तिषु ए-कैकं कोणगं कोष्ठमुत्सृज्य कोणकोष्ठद्वारपीठान्तराल-वर्त्तीनि पञ्च पञ्च कोष्ठानि प्रतिदिशं मार्जयेत्। तेनमध्यचतुरस्रपीठस्य पादाः मवन्ति। ततो मध्यपीठमा-रभ्य क्रमशश्चत्वारि वृत्तानि कुर्य्यात्। तत्राद्ये चतुरङ्गुलीद्वितीयेऽष्टाङ्गलस्तृतीये चतुर्वि शत्यङ्गुलः चतुर्थे च षड-विंशत्यङ्गलो व्यासः। तत्राद्यं चतुरङ्गचव्यासकं वृत्तंकर्णिकारूपं पीतेन रजसा पूरयित्वा कर्णिकावधि रेखांसितेन रजसा विदध्यात्। तद्बहिरष्टाङ्गुलव्यासे द्वितीय-वृत्ते क्रमेण पीतरक्तसितरजोभिः सम्पादितमव्यमूला-ग्राणि षोडश केसराणि कृत्वा केसरावधिरेखां सितेनैवरजसाङ्गुलोन्नतां कुर्य्यात्। ततस्तद्वहिश्चतुर्विंशत्यङ्गुल-व्यासे तृतीयवृत्ते अष्टसु दिक्ष्वष्टौ पत्राणि सितरजसाविधाय रक्ताग्राणि कुर्य्यात्। ततो दलान्तरेषु सितेनरजसा रेखां विधाय दलमध्यानि कृष्णेन रजसा पूर-येत्। तद्वहिरेकाङ्गुलान्तरालां बहिर्वृत्तस्थ चतुर्थ-रेखां सितरजसा संपाद्य ततीयचतुथवृत्तद्वयान्तरस्थानेषु[Page5172-a+ 38] परितोऽष्टदलाग्रतत्सन्धिषु षोडशभिः पत्रैः षोडशधाविभज्य प्रतिभागं यवाकारान् षोडशारान् श्यामपीता-रुणश्वेतरजोभिः कल्पयित्वा तन्मध्यं यंथायोगं रजोभिःपूरयेत्। तद्बहिः सितपीतारुणश्यामहरिताः पञ्चरेखाः क्रमशो लिखेत्। तद्बहिः पीठक्षेत्रचतुरस्रंयथाशोभं रजोभिरलङ्कृत्य पीठावधिरेखां सितेन रजमाकृत्वा द्वारक्षेत्राणि पूर्वादितः पीतश्वेतश्यामहरितर-जोभिः पूरयेत्। तत आग्नेयादिकोखस्थकोष्ठचतुष्टयंक्रमेण लोहितहरितश्यामधवलैः पूरयित्वा आग्नेया-दिपीठपादचतुष्टयं पञ्चकोष्ठात्मकं क्रमात् पितरक्तपीत-कृष्णरजोभिः पूरयेत्। ततः सितेन रजसाङ्गुलीन्नतेनबहिश्चतुरस्नरेखां कुर्य्यात्। ततः प्राच्यां वज्रम्, आ-ग्नेय्यां शक्तिं, दक्षिणे दण्डं, नैरृत्यां खङ्गं पश्चि-मायां पाशं, वायव्यां ध्वज, कौवेर्य्यां गदाम्, ऐशान्यांशूलं तहामे चक्रं, पाशदक्षिणे पद्मञ्च लिखेत्”।

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

षोडशार/ षोडशा mfn. having 16 spokes Nr2isUp.

षोडशार/ षोडशा mfn. -hhaving 16 petals MW.

षोडशार/ षोडशा n. a kind of lotus ib.

"https://sa.wiktionary.org/w/index.php?title=षोडशार&oldid=363817" इत्यस्माद् प्रतिप्राप्तम्