षोढान्यास

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षोढान्यासः, पुं, (षोढा षड्धा न्यासः ।) विधिना शरीरे मन्त्रविन्यासः । यथा । अथ षोढान्यासः । तदुक्तं वीरतन्त्रे । “केवलां मातृकां कृत्वा मातृकां तारसंपुटाम् । मातृकापुटितं तारं न्यसेत् साधकसत्तमः ॥ १ ॥ श्रीबीजपुटितां तान्तु मात्कापुटितन्तु तत् ॥ २ कामेन पुटितां देवीं तत्पुटं काममेव च ॥ ३ ॥ शक्त्या च पुटितां देवीं शक्तिञ्च तत्पुटां न्यसेत् क्रीं द्वन्द्वञ्च पुनर्न्यस्त्वा ऋ-ॠ-ऌ-ॡञ्च पूर्ववत् ॥ ५ मूलेन पुटितां देवीं तत्पुटं मन्त्रमेव च ॥ ६ ॥ अनुलोमविलोमेन न्यस्त्वा मन्त्रं यथाविधि । मूलेनाष्टशतं कुर्य्यात् व्यापकं तदनन्तरम् ॥” यथा, प्रणवपुटितां मातृकाम् । एवं मातृका- पुटितं तारम् । एवं श्रीबीजपुटितां ताम् । तत्- पुटितं श्रीबीजम् । एवं कामेन पुटितां मातृ- काम् । मातृकापुटितं कामम् । एवं शक्त्या पुटितां मातृकाम् । मातृकापुटितां शक्तिं न्यसेत् । तथा क्रीं द्वन्द्वञ्च ऋ-ॠ-ऌ-ॡञ्च पूर्व- वत् । तत्पुटितां मातृकां न्यसेत् । मातृकापुटि तञ्च तत् । मन्त्रपुटितां मातृकाम् । तत्पुटितं मन्त्रम् । पुनरनुलोमविलोमेन केवलं मातृका- स्थाने न्यस्य मूलेनाष्टशतेन व्यापकं कुर्य्यात् । अयं न्यासस्ताराया अपि कार्य्यः । “इति गुप्तेन दुर्गाया अङ्गषोढा प्रकीर्त्तिता । तारायाः कालिकायाश्च उन्मुख्याश्च तथा- परे । एतस्मिन् न्यासवर्य्ये च सर्व्वं पापं प्रणश्यति ॥” इति तन्त्रसारः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षोढान्यास¦ पु॰ षोढा षट्प्रकारो न्यासः। तन्त्रोक्ते षट्-प्रकारन्यासमेदे षोढान्यासप्रकारो यथा वीरतन्त्रेकेवला भातृकां कृत्वा मातृकां तारसंपुटाम्। मातृका-पुटितं तारं न्यसेत् साधकसत्तमः। श्रीवीजपुटितां तान्तुसातृकस्पुटितं तु तत्। कामेन पुटितां देवीं तत्पुटंकाममेव च। शक्त्या च पुटितां देवीं शक्तिञ्च तत्पुटांत्यसेत्। क्रीं द्वन्द्वञ्च पुनर्न्यस्य। ऋ{??}ऌखञ्च पूर्ववत्। मूलेन पुटितां देवी तत्पुटं मन्त्रमेव च। अनुलोमवि-लामेन न्यस्य मन्त्रं यथाविधि। मूलेनाष्टशत कुर्य्यात्व्यापकं तदनन्तरत्”। कालीतारादिषोढान्यासास्तन्त्र-सारे दृश्याः।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षोढान्यास/ षोढा--न्यास m. 16 ways of disposing magical texts on the body (as practised by the तान्त्रिकs) Cat.

"https://sa.wiktionary.org/w/index.php?title=षोढान्यास&oldid=505124" इत्यस्माद् प्रतिप्राप्तम्