षोढान्यासः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
षोढान्यासः, पुं, (षोढा षड्धा न्यासः ।) विधिना शरीरे मन्त्रविन्यासः । यथा । अथ षोढान्यासः । तदुक्तं वीरतन्त्रे । “केवलां मातृकां कृत्वा मातृकां तारसंपुटाम् । मातृकापुटितं तारं न्यसेत् साधकसत्तमः ॥ १ ॥ श्रीबीजपुटितां तान्तु मात्कापुटितन्तु तत् ॥ २ कामेन पुटितां देवीं तत्पुटं काममेव च ॥ ३ ॥ शक्त्या च पुटितां देवीं शक्तिञ्च तत्पुटां न्यसेत् क्रीं द्वन्द्वञ्च पुनर्न्यस्त्वा ऋ-ॠ-ऌ-ॡञ्च पूर्ववत् ॥ ५ मूलेन पुटितां देवीं तत्पुटं मन्त्रमेव च ॥ ६ ॥ अनुलोमविलोमेन न्यस्त्वा मन्त्रं यथाविधि । मूलेनाष्टशतं कुर्य्यात् व्यापकं तदनन्तरम् ॥” यथा, प्रणवपुटितां मातृकाम् । एवं मातृका- पुटितं तारम् । एवं श्रीबीजपुटितां ताम् । तत्- पुटितं श्रीबीजम् । एवं कामेन पुटितां मातृ- काम् । मातृकापुटितं कामम् । एवं शक्त्या पुटितां मातृकाम् । मातृकापुटितां शक्तिं न्यसेत् । तथा क्रीं द्वन्द्वञ्च ऋ-ॠ-ऌ-ॡञ्च पूर्व- वत् । तत्पुटितां मातृकां न्यसेत् । मातृकापुटि तञ्च तत् । मन्त्रपुटितां मातृकाम् । तत्पुटितं मन्त्रम् । पुनरनुलोमविलोमेन केवलं मातृका- स्थाने न्यस्य मूलेनाष्टशतेन व्यापकं कुर्य्यात् । अयं न्यासस्ताराया अपि कार्य्यः । “इति गुप्तेन दुर्गाया अङ्गषोढा प्रकीर्त्तिता । तारायाः कालिकायाश्च उन्मुख्याश्च तथा- परे । एतस्मिन् न्यासवर्य्ये च सर्व्वं पापं प्रणश्यति ॥” इति तन्त्रसारः ॥
