सामग्री पर जाएँ

ष्टभ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

ष्टभ, इ ङ स्तम्भे । इति कविकल्पद्रुमः ॥ (भ्वा०- आत्म०-अक०-सक०-चसेट् ।) इ, स्तम्भ्यते । ङ, स्तम्भते । तिष्टम्भयिषति । इकारस्य पुनरुक्तिः पूर्व्वत्र तत्सम्बन्धनिषेधायैव ङितस्तुसर्वे । एक एवेत् पाठबलात् वाध्य इति वत् । स्तम्भो जडी भावः जडीकरणञ्च । स्तम्भौ स्थूणाजडीभावौ इत्यमरोक्तेः । शीतेनावस्तब्धः जडीकृत इत्यर्थः । इति क्रमदीश्वरोक्तेश्च । स्तम्भ इह क्रिया निरोधः । इति भीमः । दीषवृद्धिरिति गोविन्द भट्टः । स्तम्भो रुद्धीकरणञ्च । स्तम्भते कबाटेन द्वारं लोकः । इति दुर्गादासः ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

ष्टभ¦ स्तम्भे अक॰ स्तम्भने सक॰ भ्वा॰ आत्म॰ सेट् इढि। स्तम्भते अस्तम्भिष्ट।

"https://sa.wiktionary.org/w/index.php?title=ष्टभ&oldid=364008" इत्यस्माद् प्रतिप्राप्तम्