ष्टुभ
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
ष्टुभ, उ ङ स्तम्भे । इति कविकल्पद्रुमः ॥ (भ्वा० आत्म०-अक०-सक० च-सेट् । क्त्वावेट् ।) उ, स्तोभित्वा । स्तुब्ध्वा । ङ, स्तोभते तुष्टोभयि- षति । स्तम्भो जडीभावः तत्करणञ्च । स्तम्भौ स्थूणाजडीभावावित्यमरोक्तेः । शीतेनावस्तब्धो जडीकृत इत्यर्थः । इति क्रमदीश्वरोक्तेश्च । “शास्त्रेण स्तोभते भूयो लघुप्रकृतिको नरः ।” इति हलायुधः । स्तोभते वृषं शीतो वायुः । इति चतुर्भुजः । स्तम्भ इह क्रियानिरोधः । इति भीमः । दोष- वृद्धिरिति गोविन्दभट्टः । इति दुर्गादासः ।
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
ष्टुभ¦ स्तम्भे अक॰ स्तम्भने सक॰ भ्वा॰ आत्म॰ सेट् क्त्वा वेट्। स्तोभते अस्तोभिष्ट।
