सामग्री पर जाएँ

ष्ठिव

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

ष्ठिव, उ निरासे । इति कविकल्पद्रुमः ॥ (भ्वा० पर०-सक०-सेट् । क्त्वावेट् ।) उ, ष्ठेवित्वा ष्ठ्युत्वा । अस्य नेम् ङीश्वी इत्यादिना इमो निषेधे निष्ठायां ष्ठ्यूत इति भेदः । निरास इह फुत्कार इति भट्टमल्लः । मुखेन श्लेष्मादेर्वमन- मिति केचित् । इति दुर्गादासः ॥

ष्ठिव, य निरासे । इति कविकल्पद्रुमः ॥ (दिवा० पर०-सक०-सेट् ।) य, ष्ठीव्यति । इति दुर्गा- दासः ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

ष्ठिव¦ निरासे (मुखेन श्लेष्मादेर्वमने) भ्वा॰ पर॰ सक॰ सेट्ष्ठीवति अष्ठेवीत्। ष्ठे (ष्ठी)वनम् उदित् क्त्वा वेट्। अ-त्रार्थे दिवादित्वमपि ष्ठीव्यति। षोपदेशपर्युदासे ह्रस्वदीर्घमध्ययोर्ग्रहणम्।

"https://sa.wiktionary.org/w/index.php?title=ष्ठिव&oldid=364216" इत्यस्माद् प्रतिप्राप्तम्