ष्ठीव
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
ष्ठीव, निरासे । इति कविकल्पद्रुमः ॥ (भ्वा० पर०- सक०-सेट् ।) ष्ठीवति । यं ह्रस्विनं मत्वा ष्ठिवुक्लमाचमोऽपीति दीर्घिणं विदधामः स एवायं ष्ठीविष्यति इत्यादिसाधनाय दीर्घो पठ्यते । तेन ह्रस्विनो ग्रहणेनास्मिन् गृहीते भ्वाद्यादि ष्णः स्न इत्यादिना मूर्द्धन्यषस्य दन्त्य- सो न स्यात् एवं ष्ठिवजाद्योः खेरित्यादिना खेष्ठ- कारस्य तकारे तिष्ठीव टिष्ठीवैत्यपि स्यात् । यत्तु सत्यप्यस्मिन्ननटि ष्ठीवनमिति निपातनं तदस्य सर्वसम्मतत्वाभावात् । निरास इह फुत- कार इति भट्टमल्लः । मुखेन श्लेष्मादेर्वमन- मिति केचित् । ष्ठीवत्यन्नं लोकः । ष्ठीवासि शुष्केक्षुलतास्थिकल्पम् । इति दुर्गादासः ॥
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
ष्ठीव¦ निरासे (श्लेष्मादेर्मुखेन वमने) भ्वा॰ पर॰ अक॰ सेट्। ष्ठीवति अष्ठीवीत् ष्ठीवनम्।
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
ष्ठीव See. हिरण्य-ष्ठीव.