संङ्क्रान्तिः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
संङ्क्रान्तिः, स्त्री, (सं + क्रम + क्तिन् ।) राश्य- न्तरसंयोगानुकूलव्यापारः । यथा, -- “नाडीनक्षत्रदिवसे रविभौमशनैश्चराः । सङ्क्रान्तिं यस्य कुर्व्वन्ति तस्य क्लेशोऽभिजायते ॥ इति तिथ्यादितत्त्वम् ॥ रविसंक्रान्तिर्यथा । भविष्यमात्स्यज्योतिषेषु । “मृगकर्क्कटसंक्रान्ती द्वे तूदग्दक्षिणायने । विषुवती तुलामेषे गोलमध्ये तथापराः ॥” मृगो मकरः । गोलो राशिचक्रम् । “धनुर्म्मिथुनकन्यासु मीने च षडशीतयः । वृषवृश्चिकसिंहेषु कुम्भे विष्णुपदी स्मृता ॥” देवीपुराणम् । “यावद्विंशकला भुक्तास्तत् पुण्यं चोत्तरायणे । निरंशे भास्करे दृष्टे दिनान्तं दक्षिणायने ॥ अर्द्धरात्रे त्वसंपूर्णे दिवा पुण्यमनागतम् । अर्द्धरात्रे व्यतीते तु विज्ञेयं चापरेऽहनि ॥ संपूर्णे चार्द्धरात्रे च उदयेऽस्तमयेऽपि वा । मानार्द्धं भास्करे पुण्यमपूर्णे शर्व्वरीदले ॥ सम्पूर्णे तूभयोर्ज्ञेयमतिरेके परेऽहनि । घटितत्वाद्वोभयथापि तत्र पूज्ये विधेर्वृत्तिरित्य- नेन पुण्यकालयुक्ताहोरात्रकर्त्तव्यता अष्टम्युप- वासवत् । एकादशीतत्त्वे एतद्बहुधा विमृष्टम् । एवञ्च रात्रिप्रागर्द्धसंक्रान्तौ दिवाशेषार्द्धमात्रस्य तत्पुण्यकालत्वाद्रात्रिमुहुर्त्तार्द्धे सायं सन्ध्यो- पासनं कार्य्यमेव । * । ब्रह्मपुराणे । “नित्यं द्वयोरयनयोर्नित्यं विषुवतोर्द्वयोः । चन्द्रार्कयोर्ग्रहणयोर्व्यतीपातेषु पर्व्वसु ॥ अहोरात्रोषितः स्नानं श्राद्धं दानं तथा जपम् । यः करोति प्रसन्नात्मा तस्य स्यादक्षयञ्च तत् ॥” अहोरात्रोषितः पूर्व्वदिने कृतोपवासः । एतत- परमेव । “अर्द्धरात्रे व्यतीते तु संक्रान्तिर्यदहर्भवेत् । पूर्व्वे व्रतादिकं कुर्य्यात् परेद्युः स्नानदानयोः ॥” इति भीमपराक्रमीयम् ॥ स्नानदानयोरित्यत्र सप्तमीनिर्द्देषात् परदिव- सायस्नानदानादिनिमित्तकं पूर्व्वदिने उपवास- संयमरूपः व्रतादिकं कुर्य्यादित्यर्थः । इति तिथ्यादितत्त्वम् ॥ * ॥ अथ रविसंक्रान्तिगणनम् “नवाष्टशक्रहीनेन शकाब्दाङ्केन पूरिताः । भूर्व्वाणचन्द्रावेकाम्नी कुरामौ वेदयुग्मके ॥ १ । १५ । ३१ । ३१ । २४ ॥ अङ्का अनुपलादेस्तु षष्ट्या लब्धाङ्कमिश्रिताः । दण्डात् खाम्बी हयेषू च ३० । ५७ । पलाद्धित्वा ततः पुनः ॥ सप्तावशिष्टा वाराः स्युस्ततो दण्डादिकाः परे । मेषसंक्रमणे भानोः सिद्धान्तस्फुटसम्मताः ॥ भुजौ षडिषू रामाग्नी २ । ५६ । ३३ । कालो जातिर्गजावनी । ६ । २२ । १८ रामश्चन्द्रोऽग्नियुग्मश्च ३ । १ । २३ । तर्कोऽङ्क दृङ्- नवाशुभौ ॥ ६ । २९ । ५९ ॥ द्वावङ्कदृग्वेदबाणा २ । २९ । ५४ । अब्धिर्वाणशरौ सुराः । ४ । ५५ । ३३ । षणागवेदौ शून्येन्दू ६ । ४८ । १० । एकं शैलभुवौ शराः ॥ १ । १७ । ५ ॥ द्वौ षडग्नी तथा काला २ । ३६ । ६ । अब्धीरामाः शरावनी । ४ । ३ । १५ । पश्चाग्नीषू तथा रुग्रा ५ । ५३ । ११ । मेष- संक्रमवारतः । अङ्केर्योज्या वृषादेस्तु वाराद्याः संक्रमे रवेः ॥” इति ज्योतिस्तत्त्वम् ॥
