संयतः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
संयतः, त्रि, (सं + यम् + क्तः ।) बद्धः । इत्यमरः ॥ (यथा, राभायणे । १ । १० । २५ । “मायामिव परिभ्रष्टां हरिणीमिव संयताम् ॥” कृतसंयमः । यथा ब्रह्मपुराणम् । “यो यः कश्चित्तीर्थयात्रान्तु गच्छेत् सुसंयतः स च पूर्व्वं गृहे स्वे । कृतोपवासः शुचिरप्रमत्तः संपूजयेद्भक्तिनम्रो गणेशम् ॥” इति प्रायश्चित्ततत्त्वम् ॥
