संयम

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संयमः, पुं, (सं + यम + “यमः समुपनिविषु च ।” ३ । ३ । ६३ । इति अप् ।) व्रताद्यङ्गपूर्व्वदिन- कत्तव्याचारः । तत्पर्य्यायः । वियामः २ वियमः ३ यामः ४ यमः ५ संयामः ६ । इत्यमरः ॥ संयमनम् ७ नियमः ८ इति धरणिः ॥ तद्- विधानं यथा । अथ दशमीनियमाः । सूरि- सन्तोषे । “कांस्यं मांसं मसूरञ्च चणकं कोरदूषकम् । शाकं मधु परान्नञ्च त्यजेदुपवसन् स्त्रियम् ॥” अत्रोपवसन्निति तद्दिने भोजनासम्भवात् सामी- प्यात् पूर्व्वापरदिनयोर्ग्रहणम् । स्मृतिः । “शाकं माषं मसूरञ्च पुनर्भोजनमैथुने । द्युतमत्यम्बुपानञ्च दशम्यां वैष्णवस्त्यजेत् ॥ कांस्यं मांसं सुरां क्षौद्रं लोभं वितथभाषणम् । व्यायामञ्च व्यवायञ्च दिवास्वप्नं तथाञ्जनम् ॥ तिलपिष्टं मसूरञ्च दशम्यां वर्ज्जयेत् पुमान् । दशम्याकेकभक्तञ्च कुर्व्वीत नियतेन्द्रियः ॥ आचम्यदन्तकाष्ठञ्च खादेत तदनन्तरम् । पूर्व्वं हरिदिनाल्लोकाः सेवध्वं चैकभोजनम् ॥ अवनीपृष्ठशयनाः स्त्रियाः सङ्गविवर्जिताः । सेवध्वं देवदेवेशं पुराणं पुरुषोत्तमम् । सकृद्भोजनसंयुक्ता द्वादश्याञ्च भविष्यथ ॥” इत्येकादशीतत्त्वम् ॥ * ॥ श्राद्धपूर्व्वदिनकर्त्तव्यनियमो यथा । देवलः । “श्वः कर्त्तास्मीति निश्चित्य दाता विप्रान्निमन्त्र- येत् । निरामिषं सकृत् भुक्त्वा सर्व्वमुप्तजने गृहे । असम्भवे परेद्युर्व्वा ब्राह्मणांस्तान्निमन्त्रयेत् ॥” वराहपुराणम् । “वस्त्रशौचादि कर्त्तव्यंश्वः कर्त्तास्मीति जानता । स्थानोपलेपनञ्चैव कृत्वा विप्रान्निमन्त्रयेत् । दन्तकाष्ठञ्च विसृजेत् ब्रह्मचारी शुचिर्भवेत् ॥” विसृजेत् श्राद्धीयब्राह्मणेभ्यो दद्यात् । मार्क- ण्डयपुराणम् । “निमन्त्रयेच्च पूर्व्वेद्युः पूर्व्वोक्तान् द्विजसत्तमान् । अप्राप्तौ तद्दिने वापि हित्वा योषित्प्रसङ्गिनम् ॥” यमः । “प्राथेयेत् प्रदोषान्ते भुक्तान्न शयितान् द्धिजान् । सर्व्वायासविनिर्मुक्तः कामक्रोधविवर्ज्जितैः ॥ भवितव्यं भवद्भिश्च श्वोभूते श्राद्धकर्म्मणि । दक्षिणं जानु चालभ्य त्वं मयात्र निमन्त्रितः । एवं निमन्त्र्य नियमान् श्रावयेत् पैतृकान्बुधः ॥” तन्नियममाह । “अक्रोधनैः शौचपरैः सततं ब्रह्मचारिभिः । भवितव्यं भवद्भिश्च मया च श्राद्धकर्म्मणि ॥” इति श्राद्धतत्त्वम् ॥ * ॥ तीर्थयात्रापूर्व्वदिनकर्त्तव्यनियममाह । ब्रह्म- पुराणम् । “यो यः कश्चित्तीर्थयात्रान्तु गच्छेत् सुसयतः स च पूर्व्वं गृहे स्वे । कृतोपवासः शुचिरप्रमत्तः संपूजयेद्भक्तिनम्रो गणेशम ॥ देवान् पितॄन् ब्राह्मणांश्चैव साधून् धीमान् प्रीणयन् वित्तशक्त्या प्रयत्नात् । प्रत्यागतश्चापि पुनस्तथैव देवान् पितॄन् ब्राह्मणान् पूजयेच्च ॥” एवं प्रकुर्व्वतस्तस्य तीर्थाद्यदुक्तं फलं तत् स्यान्नात्र सन्देह एव । सुसंयतः पूर्व्वदिने कृतैकभक्तादिनियमस्तदुत्तरदिने कृतोपवास इत्यादि । उपवासदिने मुण्डनमपि । “प्रयागे तीर्थयात्रायां पितृमातृवियोगतः । कचानां वपनं कार्य्यं वृथा न विकचो भवेत् ॥” इति विष्णुपुराणात् । इति प्रायश्चित्ततत्त्वम् ॥ प्रायश्चित्तपूर्व्वाहकृत्यं यथा । शङ्खलिखितौ । “वाप्य केशनखान् पूर्व्वं घृतं प्राश्य वहिर्निशि प्रत्येकं नियतं कालमात्मनो व्रतमादिशेत् ॥” इति प्रायश्चित्ततत्त्वम् ॥ (बन्धनम् । यथा, साहित्यदर्पणे । ३ । १५५ । “कापि कुन्तलसंव्यानसंयमव्यपदेशतः । बाहुमूलं स्तनौ नाभिपङ्कजं दर्शयेत् स्फुटम् ॥” संकोचः । यथा, मार्कण्डेये । ७७ । ४ । “मयि दृष्टे सदा यस्मात् कुरुषे नेत्रसंयमम् । तस्माज्जनिष्यते मूढे प्रजासंयमनं यमम् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संयम पुं।

संयमः

समानार्थक:वियाम,वियम,याम,यम,संयाम,संयम

3।2।18।2।6

प्रवाहस्तु प्रवृत्तिः स्यात्प्रवहो गमनं बहिः। वियामो वियमो यामो यमः संयामसंयमौ॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संय(या)म¦ पु॰ सम् + यम--घञ् वा वृद्धिः। व्रताङ्गतया पूर्व-दिनकर्त्तव्ये

१ नियमभेदे अमरः

२ इन्द्रियनिग्रहे

३ बन्धने च

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संयम¦ m. (-मः)
1. Restraint, forbearance.
2. Humanity, avoiding the infliction of pain on others. E. सम् before यम् to restrain, aff. अप्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संयमः [saṃyamḥ], Restraint, check, control; श्रोत्रादीनीन्द्रियाण्यन्ये संयमाग्निषु जुह्वति Bg.4.26,27; so संयमधनः &c.

Concentration of mind, a term applied to the last three stages of Yoga; संयमाश्चानृशंस्य च परस्वादानवर्जनम् Mb.14. 18.16; धारणाध्यानसमाधित्रयमन्तरङ्गं संयमपदवाच्यम् Sarva. S.; Ku.2.59.

A religious vow.

Religious devotion, practice of penance; अस्मान् साधु विचिन्त्य संयमधनान् Ś.4. 17.

Humanity, feeling of compassion.

Any religious act on the day preceding a vow or course of penance.

Destruction of the world; यच्चेदं प्रभवः स्थानं भूतानां संयमो यमः Mb.12.238.2; पुरा स्वयंभूरपि संयमा- म्भस्युदीर्णवातोर्मिरवैः कराले Bhāg.6.9.24.

Closing (of the eyes).

Effort, exertion.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संयम/ सं-यम m. holding together , restraint , control , ( esp. ) control of the senses , self-control Mn. MBh. etc.

संयम/ सं-यम m. tying up (the hair) Sa1h.

संयम/ सं-यम m. binding , fettering VarBr2S.

संयम/ सं-यम m. closing (of the eyes) Ma1rkP.

संयम/ सं-यम m. concentration of mind (comprising the performance of धारणा, ध्यान, and समाधि, or the last three stages in योग) Yogas. Sarvad.

संयम/ सं-यम m. effort , exertion( आ, " with great difficulty ") MBh.

संयम/ सं-यम m. suppression i.e. destruction (of the world) Pur.

संयम/ सं-यम m. N. of a son of धूम्राक्ष(and father of कृशा-श्व) BhP.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


SAṀYAMA : A son of the Rākṣasa called Śataśṛṅga. He was killed by Sudeva, chief of the army of Ambarīṣa. (Mahābhārata, Southern Text, Śānti Parva, Chapter 98).


_______________________________
*8th word in right half of page 681 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=संयम&oldid=439311" इत्यस्माद् प्रतिप्राप्तम्