सामग्री पर जाएँ

संयावः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

संयावः, पुं, (सं + यु + “समि युद्रुदुवः ।” ३ । ३ । २३ । इति घञ् ।) घृतक्षीरादिपक्वगोधूमः । यथा, -- “संयावस्तु घृतक्षीरगुडगोधूमपाकजः ।” इति शब्दचन्द्रिका ॥ पिष्टकविशेषः । पेराकी इति भाषा । यथा, -- “पर्य्यट्यः साज्यसमिता निर्म्मिता घृतभर्ज्जिताः कुट्टिताश्चालिताः शुद्धाः शर्कराभिर्व्विमर्द्दिताः ॥ तच्चूर्णे प्रक्षिपेदेलां लवङ्गमरिचानि च । नालिकेलं सकर्पूरं वारबीजान्यनेकशः ॥ घृताक्तसमितापुष्टरोटिका रचिता ततः । तस्यां तत्पुरणात्तस्य कुर्य्यान्मुद्रां दृढां सुधीः ॥ सर्पिषि प्रचुरे तान्तु सुपचेन्निपुणो जनः । प्रकारज्ञैः प्रकारोऽयं संयाव इति कीर्त्तितः । मण्ठकोऽपि समो ज्ञेयः संयावोऽपि गुणैर्जनैः ॥” इति भावप्रकाशः ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

संयावः [saṃyāvḥ], A kind of cake of wheaten flour; वृथा कृसर- संयावं पायसापूपमेव च Ms.5.7; Bhāg.11.27.34.

"https://sa.wiktionary.org/w/index.php?title=संयावः&oldid=375127" इत्यस्माद् प्रतिप्राप्तम्