संयोगः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
संयोगः, पुं, (सं + युज् + घञ् ।) मेलनम् । न्याय- मते गुणपदार्थः । स च सम्बन्धविशेषः । अ- प्राप्तवस्तुद्वयस्य प्राप्तिः । स च त्रिविधो यथा । एककर्म्मजन्यः । यथा पर्व्वते पक्षिसंयोगः ॥ १ ॥ उभयमर्म्मजन्यः । यथा मेषद्वयसंयोगः ॥ २ ॥ संयोगजन्यसंयोगः । यथा कपालतरुसंयोग- जन्यतरुकुम्भसंयोगः ॥ ३ ॥ कर्म्मजन्यसंयोगो- ऽपि द्विविधः । अभिघातः । तस्मात् शब्दो जायते ॥ १ ॥ नोदनः । तस्मात् शब्दो न जायते ॥ २ ॥ अत्र प्रमाणम् । “अप्राप्तयोस्तु या प्राप्तिः सैव संयोग ईरितः । कीर्त्तितस्त्रिविधस्त्वेष आद्योऽन्यतरकर्म्मजः ॥ तथोभयोः कर्म्मजन्यो भवेत् संयोगजोऽपरः । आदिमः श्येनशैलादिसंयोगः परिकीर्त्तितः ॥ मेषयोः सन्निपातो यः स द्वितीय उदाहृतः । कपालतरुसंयोगात् संयोगस्तरुकुम्भयोः ॥ द्वितीयः स्यात् कर्म्मजोऽपि द्विधैव परिकीर्त्तितः अभिघातो नोदनश्च शब्दहेतुरिहादिमः । शब्दाहेतुर्द्द्वितीयः स्याद्विभागोऽपि त्रिधा भवेत् ॥” इति भाषापरिच्छेदः ॥ * ॥ उदयात् पूर्व्वं दशभ्याः शेषः । यथा, -- “उदयात् प्राक् दशम्यास्तु शेषः संयोग इष्यते । उपरिष्टात् प्रवेशस्तु तस्मात् तां परिवर्ज्जयेत् ॥” इति तिथ्यादितत्त्वम् ॥ सम्बन्धमात्रम् । इति संयोगपृथक्त्वन्यायार्थ- दर्शनात् ॥
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
संयोगः [saṃyōgḥ], 1 (a) Conjunction, union, combination, junction, association, intimate union; संयोगो हि वियोगस्य संसूचयति संभवम् Subhāṣ. (b) Endowment with, possesssion of.
Conjunction (as one of the 24 guṇas of the Vaiśeṣikas).
Addition, annexation.
A set; आभरणसंयोगाः Māl.6.
Alliance between two kings for a common object.
(In gram.) A conjunct consonant; हलो$नन्तराः संयोगः P.I.1.7.
(In astr.) The conjunction of two heavenly bodies.
An epithet of Śiva.
(In phil.) Contact (direct material).
Carnal contact.
Matrimonial relation.
Agreement of opinion.
Sum, total amount. -Comp. -पृथक्त्वम् severalty of conjunction. This circumstance accounts for one and the same thing being नित्य as well as नैमित्तिक. In one case it would be नित्य, in the other it would be नैमित्तिक; (एकस्य तूभयत्वे संयोगपृथक्त्वम् MS. 4.3.5; न संयोगपृथक्त्वात् MS.12.1.24.); e. g. दधि is नित्य in दध्ना जुहोत्ति, but नैमित्तिक in दध्ना इन्द्रियकामस्य जुहुयात्. This न्याय is discussed and established in MS.4.3.5.7.-विधिः the Vedānta, propounding the union of जीव and ब्रह्म; Mb.12.2.11 (com.). -विभागाः (m. pl.) conjunctions and disjunctions; यदि शब्दं संयोगविभागा एवाभिव्यञ्जन्ति न कुर्वन्ति etc.; ŚB. on MS.1.1.13. -विरुद्धम् any eatables causing disease by being mixed.
