सामग्री पर जाएँ

संयोगपृथक्त्वम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

संयोगपृथक्त्वम् क्ली, (संयोगेन फलसम्बन्धभेदेन पृथक्त्वं, नानाविधत्वं यत्र ।) न्यायविशेषः । यथा । एकस्य कर्म्मणो नित्यत्वकाम्यत्वाभ्यां द्वैरूप्याङ्गीकारे नित्यानित्यसंयगविरोधः । मैवं संयोगपृथक्त्वन्यायात् । स च न्यायश्चतुर्थाध्याये उक्तः । यथा । खादिरे पशुं बध्नाति खादिरं वीर्य्यकामस्य यूपं कुर्व्वीत इति श्रूयते । अश्र सशयः । किं काम्यस्यैव खादिरता नित्येऽपि स्यादुत नेति । तत्र फलार्थत्वेनानित्यतया नित्य- प्रयोगाङ्गता न युक्ता । यत्तु नित्यऽपि खादि- रत्वश्रवणं तत् काम्यस्यैव पशुनन्धनाय यूपा- श्रयज्ञापनार्थं अतो न नित्ये खादिरता इति प्राप्ते राद्धान्ताय चतुर्थाध्यायसूत्रम् । एकस्य तूभयत्वे संयोगपृथक्त्वमिति । अत्र संयोगः सम्बन्धमात्रं पृथक्त्वं भेदः । एकस्य खादिरस्य क्रत्वर्थत्वपुरुषार्थत्वरूपोभयात्मकत्वे वाक्यद्वयेन चक्रतुशेषत्वफलशेषत्वलक्षणसंयोगभेदावगमान्न नित्यानित्यसंयोगविरोधः । न चाश्रयज्ञानार्थं नित्यवाक्यं सन्निधानादेवाश्रयलाभात् । अत उभयार्था खादिरतेति । एवं दध्ना जुहोति दध्नेन्द्रियकामस्य इत्यादावुभयार्थतैव । दधि- त्वस्य द्वेधाश्रवणात् । इति प्रायश्चित्ततत्त्वम् ॥

"https://sa.wiktionary.org/w/index.php?title=संयोगपृथक्त्वम्&oldid=173286" इत्यस्माद् प्रतिप्राप्तम्