संयोगविरुद्ध
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
संयोगविरुद्धम्, क्ली, (संयोगेन विरुद्धम् ।) पर- स्परसंयोगेन रोगजनकखाद्यद्रव्यम् । यथा, -- “शाकाम्लपलपिण्याककुलत्थलवणामिषैः । करीरदधिमाषैश्च प्रायः क्षीरं विरुध्यते ॥ प्राणहारी तु हारीतो हरिद्रालवणैः शृतः । रुरोस्तैलेऽनलैर्भृष्टं विषं मायूरमामिषम् ॥ वराहवसया भृष्टा वलाका तु हरत्यसून् । संयुक्ता सैव वारुण्या कुल्माषंश्च बिरुध्यते ॥ अविं कुसुम्भशाकेन मत्स्यतैलैः कणां त्यजेत् । मांसैरिक्षविकारांश्च काञ्जिकैस्तिलशस्कुलीम् ॥ कपोतः सार्षपे भृष्टो घृतं कांस्ये दशाहगम् । विषं घृतसमं क्षौद्रं मधुना गगनाम्बु च ॥ मूलकं माषसूपेन मधुना च न भक्षयेत् । एकत्र सर्व्वमांसानि विरुध्यन्ते परस्परम् ॥ रात्र्यन्धवीसर्पदकोदराणां विष्फोटिकोन्मादभगन्दराणाम् । मूर्च्छामदाध्मानगलग्रहाणां पाण्ड्वामयस्यामविषस्य चैव ॥ किलासकुष्ठग्रहणीगदानां शोथातिसारज्वरपीनसानाम् । सन्तानदोषस्य तथैव मृत्यो- र्व्विरुद्धमन्नं प्रवदन्ति हेतुम् ॥ विरुद्धाहारजान् रोगान् विनिहन्ति विरेचनम् । वमनं शमनं वापि पूर्व्वं वा हितसेवनम् ॥” इति संयोगविरुद्धम् । इति राजवल्लः ॥
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
संयोगविरुद्ध¦ न॰ संयोगेन विरुद्धम्। द्रव्यान्तरसंयोगेनविरुद्धगुणाश्रये द्रव्यभेदे तच्च राजवल्लभेन दर्शितं यथा
“शाकाम्लपलपिण्याककुलत्थलवणामिषैः। करीरद-धिमाषैश्च प्रायः क्षीरं विरुध्यते। प्राणहारी तुहारीतो हरिद्रालवणैः शृतः। रुरोस्तैलानलैर्भृष्टंविषं मायूरमामिषम्। वराहवसया भृष्टा बलाका तुहरत्यसून्। संयुक्ता सैव वारुण्या कुल्माषैश्च विरु-ध्यते। अविं कृसुम्भशाकेन मत्स्यतैलैः कणां त्यजेत्। मांसैरिक्षुविकारांश्च काञ्जिकैस्तिलशस्कुलीम्। कपोतःसार्षपे भृष्टो घृतं कांस्ये दशाहिकम्। विषं घृतसमंक्षौद्रं मधुना गगनाम्बु च। मूलकं माषसूपेन मधुनाच न भक्षयेत्। एकत्र सर्वमांसानि विरुध्यन्ते प्रस्परम्। रात्र्यन्धवीसर्पदकोदराणां विस्फोटिकोन्मादभगन्दरा-णाम्। मूर्च्छामदाध्मानगलग्रहाणां पाण्ड्वामयस्यामवि-षस्य चैव किलासकुष्ठग्रहणीगदानां शोथातिसारज्वर-पीनसानाम्। सन्तानदोषस्य तथैव मृत्योर्विरुद्धमन्नंप्रवदन्ति हेतुम्। विरुद्धाहारजान् रोगात् विगिहन्तिविरेचनम्। वभनं शमनं वापि पूर्वं वा हितसेवनम्”।
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
संयोगविरुद्ध¦ n. (-द्धं) Any eatables which cause disease by being mixed.
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
संयोगविरुद्ध/ सं-योग---विरुद्ध n. food which causes disease through being mixed MW.
