सामग्री पर जाएँ

संयोगविरुद्धम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

संयोगविरुद्धम्, क्ली, (संयोगेन विरुद्धम् ।) पर- स्परसंयोगेन रोगजनकखाद्यद्रव्यम् । यथा, -- “शाकाम्लपलपिण्याककुलत्थलवणामिषैः । करीरदधिमाषैश्च प्रायः क्षीरं विरुध्यते ॥ प्राणहारी तु हारीतो हरिद्रालवणैः शृतः । रुरोस्तैलेऽनलैर्भृष्टं विषं मायूरमामिषम् ॥ वराहवसया भृष्टा वलाका तु हरत्यसून् । संयुक्ता सैव वारुण्या कुल्माषंश्च बिरुध्यते ॥ अविं कुसुम्भशाकेन मत्स्यतैलैः कणां त्यजेत् । मांसैरिक्षविकारांश्च काञ्जिकैस्तिलशस्कुलीम् ॥ कपोतः सार्षपे भृष्टो घृतं कांस्ये दशाहगम् । विषं घृतसमं क्षौद्रं मधुना गगनाम्बु च ॥ मूलकं माषसूपेन मधुना च न भक्षयेत् । एकत्र सर्व्वमांसानि विरुध्यन्ते परस्परम् ॥ रात्र्यन्धवीसर्पदकोदराणां विष्फोटिकोन्मादभगन्दराणाम् । मूर्च्छामदाध्मानगलग्रहाणां पाण्ड्वामयस्यामविषस्य चैव ॥ किलासकुष्ठग्रहणीगदानां शोथातिसारज्वरपीनसानाम् । सन्तानदोषस्य तथैव मृत्यो- र्व्विरुद्धमन्नं प्रवदन्ति हेतुम् ॥ विरुद्धाहारजान् रोगान् विनिहन्ति विरेचनम् । वमनं शमनं वापि पूर्व्वं वा हितसेवनम् ॥” इति संयोगविरुद्धम् । इति राजवल्लः ॥

"https://sa.wiktionary.org/w/index.php?title=संयोगविरुद्धम्&oldid=173288" इत्यस्माद् प्रतिप्राप्तम्