संवरारि
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
संवरारिः, पुं, (संवरस्य अरिः ।) कामदेवः । इत्य- मरः । १ । १ । २३ ॥ “संवरस्य दैत्यविशेषस्य अरिः । ‘क्लीवन्तु संवरं नीरबौद्धव्रतविशेषयोः । विशेषे पुंसि दैत्यस्य मत्स्यस्य हरिणस्य च ॥’ इति दन्त्यादौ रभसः । संवरणं संवरः भावेऽल् । इन्द्रियसंयमः संवरस्तस्यारिरिति वा । तदुक्तं साहित्यकल्पतरुणा । रुद्रस्य सम्बरारिश्च पुष्प- वतीनां कुसुमधन्वेति । तदयं संवरारिरिह तालव्यादिर्दन्त्यादिश्च ॥” इति भरतः ॥
