सामग्री पर जाएँ

संवर्त्तः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

संवर्त्तः, पुं, (सं + वृत् + घञ् ।) प्रलयः । इत्य- मरः ॥ (यथा, भागवते । ८ । १५ । २६ । “दहन्निव दिशो दिग्भिः संवर्त्ताग्निरिवो- त्थितः ॥”) मुनिविशेषः । (यथा, मार्कण्डेये । १३० । ११ । “ऋत्विक् तस्य तु संवर्त्तो बभूवाङ्गिरसः सुतः । भ्राता बृहस्पतेर्विप्र महात्मा तपसां निधिः ॥” अयं हि धर्म्मशास्त्रप्रयोजकानामन्यतमः ॥) कर्षफलवृक्षः । इति मेदिनी ॥ मेघः । इति शब्दरत्नावली ॥ (यथा, हरिवंशे । १२० । ९० । “शुश्रुवे सुमहान् शब्दः सवर्त्तनिनदो यथा ॥”) मेघनायकांवशेषः । तस्य विवरणं यथा, -- “त्रियुते शाकवर्षे तु चतुर्भिः शेषिते क्रमात् । आवर्त्तं विद्धि संवर्त्तं पुष्करं द्रोणमम्बुदम् ॥ आवर्त्तो निर्जलो मेघः संवर्त्तश्च बहूदकः । पुष्करो दुष्करजलो द्रोणः शस्यप्रपूरकः ॥” इति ज्योतिस्तत्त्वम् ॥ संपूर्व्वकान्तःस्थवकारादिवृतधातोः घञ्प्रत्ययेन निष्पन्नत्वादनुस्वारमध्यः । मकारमध्योऽप्य- यम् ॥

"https://sa.wiktionary.org/w/index.php?title=संवर्त्तः&oldid=173325" इत्यस्माद् प्रतिप्राप्तम्