सामग्री पर जाएँ

संवित्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

संवित्, स्त्री, (सं + विद् + क्विप् ।) अङ्गी- कारः । ज्ञानम् । (यथा, श्रीधर- स्वामी ।

संवित्, स्त्री, (सं + विद् + क्विप् ।) अङ्गी- कारः । ज्ञानम् । (यथा, श्रीधर- स्वामी । “वागीशा यस्य वदने लक्ष्मीर्यस्य च वक्षसि । यस्यास्ति हृदये संवित् तं नृसिंहमहं भजे ॥” सम्भाषा । क्रियाकारः । युद्धम् । इत्यमरः ॥ आचारः । (यथा, माघे । १२ । ३५ । “ओजस्विवर्णोज्ज्वलवृत्तशालिनः प्रसादिनोऽनुज्झितगोत्रमंविदः । श्लोकानुपेन्द्रस्य पुरः स्म भूयसो गुणान् समुद्दिश्य पठन्ति वन्दिनः ॥”) सङ्केतः । (यथा, रघुः । ७ । ३१ । “स राजलोकः कृतपूर्व्वसंवित् आरम्भसिद्धौ समयोपलभ्यम् । आदास्यमानः प्रमदामिषं तत् आवृत्य पन्थानमजस्य तस्थौ ॥”) नाम । तोषणम् । इति मेदिनी ॥ समाधिः । इति शब्दरत्नावली ॥

"https://sa.wiktionary.org/w/index.php?title=संवित्&oldid=173357" इत्यस्माद् प्रतिप्राप्तम्