सामग्री पर जाएँ

संशयः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

संशयः, पुं, (सं + शी + अच् ।) सन्देहः । इत्य- मरः ॥ तस्य लक्षणं यथा, -- “स संशयो भवेद्या धीरेकत्राभावभावयोः । साधारणादिधर्म्मस्य ज्ञानं संशयकारणम् ॥” इति भाषापरिच्छेदः ॥ “संशयं लक्षयति संशत इति । एकधर्म्मिक- विरुद्धभावाभावप्रकारकं ज्ञानं संशय इत्यर्थः । साधारणेति उभयसाधारणो यो धर्म्मस्तज्- ज्ञानं संशयसाधनम् । यथा उच्चैस्तरत्वं स्थाणुत्वसाधारणं ज्ञात्वा अयं स्थाणुर्न वेति सन्दिग्धे । एवमसाधारणज्ञानं संशयकारणम् । यथा शब्दत्वं नित्यानित्यव्यावृत्तं शब्दे गृहीत्वा शब्दो नित्यो न वेति सन्दिग्धे । विप्रतिपत्तिस्तु शब्दोऽनित्यो न वेति शब्दात्मिका न संशय- कारणं शब्दव्याप्तिज्ञानादीनां निश्चयमात्रजन- कत्वस्वाभाव्यात् । किन्त्वत्र शब्देन कोटिद्वय- ज्ञानम् जन्यते संशयस्तु मानस एवेति । एवं- ज्ञानेऽप्रामाण्यसंशयाद्विषयसंशयः । एवं व्याप्य- संशयादपि व्यापकसंशय इत्यादिकं बोध्यम् । किन्तु संशये धर्म्मिज्ञानं धर्म्मीन्द्रियसन्निकर्षो वा कारणमिति ।” इति तट्टीका सिद्धान्त- मुक्तावली ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

संशयः [saṃśayḥ], 1 Doubt, uncertainty, irresolution, hesitation; मनस्तु मे संशमेव गाहते Ku.5.46; त्वदन्यः संशयस्यास्य छेत्ता न ह्युपपद्यते Bg.6.36.

Misgiving, suspicion.

Doubt or indecision (in Nyāya), one of the 16 categories mentioned in the Nyāya philosophy; एकधर्मिकविरुद्धभावा- भावप्रकारकं ज्ञानं संशयः; it is also regarded as one of the two kinds of अयतार्थज्ञान.

Danger, peril, risk; न संशयमनारुह्य नरो भद्राणि पश्यति H.1.7; याता पुनः संशयमन्यथैव Māl.1.13; Ki.13.16; Ve.6.1.

Possibility.

A subject of dispute or controversy; अग्निहोत्रादहमभ्यागता$स्मि विप्रर्षभाणां संशयच्छेदनाय Mb.3.186.22. -Comp. -आक्षेपः a particular figure of speech ('removal of doubt'); किमयं शरदम्भोदः किंवा हंसकदम्बकम् । रुतं नूपुरसंवादि श्रूयते तन्न तोयदः ॥ इत्ययं संशयाक्षेपः संशयो यन्निवार्यते । Kāv.2.163-4. -आत्मन्a. doubting, sceptical. -आपन्न, -उपेत, -स्थ a. doubtful, uncertain, irresolute. -उपमा a comparison expessed in the form of a doubt; किं पद्ममन्तर्भ्रान्तालि किं ते लोले- क्षणं मुखम् । मम दोलायते चित्तमितीयं संशयोपमा ॥ Kāv.2.26.-गत a. fallen into danger; Ś.6. -छेदः solution of a doubt, decision. -छेदिन् a. clearing all doubt, decisive; Ś.3.

"https://sa.wiktionary.org/w/index.php?title=संशयः&oldid=378174" इत्यस्माद् प्रतिप्राप्तम्