संसर्गः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
संसर्गः, पुं, (सं + सृज् + घञ् ।) सम्बन्धः । स च समवायादिः । इति न्यायशास्त्रम् ॥ * ॥ पापिष्ठान्त्यजादिसंसर्गप्रायश्चित्तम् । यथा, -- “स्तेयादिना पतिता इत्युपक्रम्य उक्तम् । अत्रा- ज्ञानतो वत्सरेण पातित्यम् । “संवत्सरेण पतति पतितेन सहाचरन् । याजनाध्यापनाद्नादकशय्यासनाशनात् ॥” इति हारीतवचनात् । ज्ञानतो वत्सरार्द्धेनेति । तदसंस्रष्टुस्तद्दोषाभाव एव । “बान्धवोऽपि पृथग्भृत्वा तत् पापं नाप्नुयात् क्वचित् ।” इति देवलवचनात् ॥ * ॥ “यस्तस्य भुङ्क्ते पक्वान्नं कृच्छ्रार्द्धं तस्य निर्दिशेत् । महापातकिनस्त्वेते यश्च तैः सह संवसेत् ॥ संवत्सरन्तु पतितैः संसर्गं कुरुते तु यः । यानशय्यासतैर्नित्यं जानन् स पतितो भवेत् ॥” ननु द्वितीयतृतीयसंर्गिणि प्रमाणं नास्ति अतएव वृद्धशातातपः । “अशुचिं संस्पृशेद्यस्तु एक एव स दुष्यति । तत्स्पृष्ट्यन्यो न दुष्येत सर्व्वद्रव्येष्वयं विधिः ॥” तथा । “संहतानान्तु पात्राणां यद्येकमुपहन्यते । तस्य तत् शोधनं प्रोक्तं न तु तत्स्पृष्टिनामपि ॥” उच्यते । यश्च येन पापात्मनेति यो येन संपिबे- दिर्ति संसर्गी येन संसर्गमिति विष्णुव्यास- जावालवचनैः सामान्येन पापिष्ठसंसर्गी पापी भवति इति प्रतिपादनात् संसर्गपापिष्ठस्यापि संसर्गी पापयुक्तो भवतीति एभिरेव प्रति- पादितम् ॥ * ॥ पतितोत्पन्नानां शुद्धिमिच्छतां पतितानां प्रायश्चित्तस्य तृतीयो भागस्तत्प्राय- श्चित्ते ज्ञेयम् । स्त्री च पतितोत्पन्ना तृतीय- भागस्य तृतीयभागं कुर्य्यात् । इति प्रायश्चित्त- विवेकः ॥
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
संसर्गः [saṃsargḥ], 1 Commixture, junction, union.
Contact, company, association, society; न संसर्गं व्रजेत् सद्भिः प्राय- श्चित्ते$कृते द्विजः Ms.11.47; संसर्गमुक्तिः खलेषु Bh.2.62; Ś.1.3. Proximity, touch.
Intercourse, familiarity.
Copulation, sexual union; नानागन्धर्वमिथुनैः पानसंसर्गकर्कशैः Rām.4.67.45; प्रत्याहारेण संसर्गान् ध्यानेनानी- श्वरान् गुणान् Ms.6.72.
Co-existence, intimate relation.
Confusion.
A particular conjunction of celestial bodies.
A particular combination of two humours which produces diseases.
Point of intersection.
Duration; Mb.3. -Comp. -अभावः one of the two main kinds of non-existence, relative non-existence, which is of three kinds; प्रागभाव antecedent, प्रध्वंसाभाव emergent, and अन्यन्ताभाव absolute, non-existence. -दोषः the fault or evil consequences resulting from association, especially with bad people.
विद्या learning by social intercourse; Kau. A.1.12.
Social science.
