सामग्री पर जाएँ

संसर्गाभावः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

संसर्गाभावः, पुं, (संसर्गेण सम्बन्धेन अवच्छिन्नो- ऽभावः ।) सम्बन्धरहितत्वम् । न्यायमते अभाव- पदार्थविशेषः । स तु भेदभिन्नाभावः । स च त्रिविधः । प्रागभावः १ ध्वंसः २ अन्त्यता- भावः ३ । यथा, -- “अभावस्तु द्विधा संसर्गान्धोन्याभावभेदतः । प्रागभावस्तथा ध्वंसोऽप्यत्यन्ताभाव एव च ॥ एवं त्रैविध्यमापन्नः संसर्गाभाव इष्यते ॥” इति भाषापरिच्छेदः ॥ * ॥ भेदत्वं तादात्म्यसम्बन्धावच्छिन्नप्रतियोगिता- काभावत्वम् । विनाश्यभावत्वं प्रागभावत्वम् १ जन्याभावत्वं ध्वंसत्वम् २ नित्यसंसर्गाभावत्व- मत्यन्ताभावत्वम् ३ । इति सिद्धान्तमुक्तावली ॥

"https://sa.wiktionary.org/w/index.php?title=संसर्गाभावः&oldid=173432" इत्यस्माद् प्रतिप्राप्तम्