संसर्गो
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
संसर्गो, [न्] (संसर्गोऽस्यास्तीति । इनिः । यद्वा, सं + सृज + “संपृचानुरुधेति ।” ३ । २ । १४२ । इति घिणुन् ।) संसर्गविशिष्टः । यथा । विभागानन्तरं मैत्र्यात् पितृभ्रातृपितृष्यभ्रातृ- पुत्त्राणां यथायथं एकत्रावस्थानं संसर्गः । तद्- युक्तः संसर्गी । एवम्भूतस्य संसर्गिणो मृतस्य धनं तज्जातस्यापत्यस्य तदपत्याभावे संसर्गी स्वयं गृह्णीयात् । इति दायतत्त्वम् ॥
