संसारः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
संसारः, पुं, (संसरत्यस्मादिति । सं + सृ गतौ + घञ् ।) मिथ्याज्ञानजन्यवासना । इति नैया- यिकाः ॥ यथा । संसारश्च मिथ्याधीप्रभवा वासना । इति प्रामाण्यवादगादाधरी टीप्पनी ॥ स्वादृष्टोपनिबद्धशरीरपरिग्रहः । इति कलाप- टीकायां गोपीनाथः ॥ संसरणम् । इति शब्द- रत्नावली ॥ तत्पर्य्यायः । दुःखलोकः २ भवः ३ कष्टकारकः ४ । इति त्रिकाण्डशेषः ॥ अपिच । “अस्माद्विजायते विश्वमत्रैव प्रविलीयते । अभायी मायया बद्धः करोति विविधास्तनूः ॥ न चाप्ययं संसरति न च संसारयेत् प्रभुः । नायं पृथ्वी न सलिलं न तेजः पवनो न तत् ॥ न प्राणो न मनो व्यक्तं न शब्दः स्पर्श एव च । न रूपरसगन्धाश्च नाहं कर्त्ता न वागपि ॥ न पाणिपादौ नो पायुर्न चोपस्थो द्विजोत्तमाः । न कर्त्ता न च भोक्ता वा न च प्रकृतिपूरुषौ ॥ न माया नैव च प्राणश्चैतन्यं परमार्थतः । अहं कर्त्ता सुखी दुःखी कृशः स्थूलेति या मतिः सा चाहङ्कारकर्त्तृत्वादात्मन्यारोप्यते जनैः । वदन्ति वेदविद्धांसः साक्षिणं प्रकृतेः परम् ॥ भोक्तारमक्षरं शुद्धं सर्व्वत्र समवस्थितम् । तस्सादज्ञानमूलोऽयं संसारः सर्व्वदेहिनाम् ॥” इति कौर्म्मे ईश्वरगीतासु २ अध्यायः ॥ किञ्च । “पितृमातृसुहृद्भ्रातृकलत्रादिकृतेन च । हष्टोऽसकृत्तथा दैन्यमश्रुपूर्णाननो गतः ॥ एवं संसारचक्रेऽस्मिन् भ्रमता तात सङ्कटे । ज्ञानमेतन्मया प्राप्तं मोक्षसंप्राप्तिकारकम् ॥” इति मार्कण्डेयपुराणे पितापुत्त्रसंवादनामा- ध्यायः ॥
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
संसारः [saṃsārḥ], 1 Course, passage.
The course or circuit of worldly life, secular life, mundance existence, the world; न स तत् पदमाप्नोति संसारं चाधिगन्छति Kath. 3.7; असासः संसारः U.1; Māl.5.3; संसारधन्वभुवि किं सारमामृशसि शंसाधुना शुभमते Aśvad.22; or परिवर्तिनि संसारे मृतः को वा न जायते Pt.1.27.
Transmigration, metempsychosis, succession of births.
Worldly illusion.
The state (future) of life (गति); येन यस्तु गुणेनैषां संसारान् प्रतिपद्यते Ms.12.39. -Comp. -गमनम् transmigration; संसारगमनं चैव त्रिविधं कर्मसंभवम् Ms.1.117.
गुरुः an epithet of the god of love.
the preceptor of the world. -चक्रम् succession of births and deaths, metempsychosis.
पथः, मार्गः the course of worldly affairs, worldly life.
the vulva. -मोक्षः, -मोक्षणम् final liberation or emancipation from worldly life.
