संसारमोक्षणम्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
संसारमोक्षणम्, त्रि, (संसारस्य मोक्षनं यस्मात् ।) भवतारकम् । यथा, -- “एवमेतन्महाशास्त्रं देवि ! संसारमोक्षणम् । मम भक्तव्यवस्थायै प्रयुक्तं परमं मया ॥” इति वाराहे सुतस्वामिमाहात्म्यनामाध्यायः ॥ * (संसारस्य मोक्षणम् ।) भवमोचने, क्ली । तदुपाया यथा, -- बलिरुवाच । “संसारार्णवमग्नानां नराणामन्यचेतसाम् । तरणे यो भवेत् पोतस्तन्मे व्याख्यातुमर्हसि ॥ प्रह्लाद उवाच । ये शङ्खचक्राब्जकरं तु शार्ङ्गिणं खगेन्द्रकेतुं वरदं श्रियः पतिम् । समाश्रयन्ते भवभीतिनाशनं संसारगर्त्तेन पतन्ति ते पुनः ॥ वैकुण्ठं खण्डपरशुं भवबन्धसमुच्छिदम् । प्रणिपत्य महात्मानं संसारे न पुनर्भवेत् ॥ ध्यायेत् दामोदरं यस्तु भक्तिनम्रोऽर्च्चयेत वा । न स संसारगर्त्तेऽस्मिन् मज्जते दानवेश्वर ! ॥ ये मानवा विगतरागपरावरज्ञा नारायण सुरगुरुं सततं स्मरन्ति । ते धौतपाण्डरपटा इव राजहंसाः संसारसागरजलस्य तरन्ति पारम् ॥” इति वामने ९० अध्यायः ॥
