संसृष्टः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
संसृष्टः, त्रि, (सं + सृज + क्तः ।) संसर्गः । वमनादिना संशुद्धः । इति मेदिनीकरहेम- चन्द्रौ ॥ विभागानन्तरं मैत्र्यात् पितृभ्रातृ- पितृव्यभ्रातृपुत्त्राणां यथायथं एकत्रावस्थान- संसर्गस्तद्युक्तः । अथ संसृष्टधनविभागः । एकपितृजातयोरपि सोदरविमातृजयोर्मृतदेय- षट्पुरुषपिण्डदातृत्वेन सोदरस्यैव धनाधिकारो न तु पित्रादित्रयमात्रपिण्डदातुर्विमातृजस्य । क्वचित्तु संसृष्टत्वेन विमातृजस्याप्यसंसृष्टसोद- रेण सह तुल्याधिकारिता सोदरम्य संसृष्टत्वे स एव गृह्णीयान्न संसृष्ट्यपि विमातृज इति । तथा च याज्ञवल्क्यः । “संसृष्टिनन्तु संसृष्टी सोदरस्य तु सोदरः । दद्याच्चापहरेदंशं जातस्य च मृतस्य च ॥ अन्योदर्य्यस्तु संसृष्टी नान्योदर्य्यो धनं हरेत् । असंसृष्ट्यपि चादद्यात् संसृष्टो नान्यमातृजः ॥” संसृष्टिनमाह बृहस्पतिः । “विभक्तो यः पुनः पित्रा भ्रात्रा चैकत्र संस्थितः । पितृव्येणाथवा प्रीत्या स तु संसृष्ट उच्यते ॥” तेन विभागानन्तरं मैत्र्यात् पितृभ्रातृपितृव्य- भ्रातृपुत्त्राणां यथायथं एकवावस्थानं संसर्गः तद्युक्तः संसर्गी । एवम्भूतस्य संसर्गिणो मृतस्य धनं तज्जातस्यापत्यस्य तदपत्याभावे संसर्गो स्वयं गृह्णीयात् । एवं सोदरस्य तु सोदरः ! ॥ * ॥ ततश्च स सृष्टिनस्तु संसृष्टीत्येतद्वचनं तुल्यरूप- सम्बन्धिसंसर्गकृतविशेषप्रतिपत्त्यर्थं तेन सोद- राणां सापत्नानां भ्रातृपुत्त्राणां पितृव्याणां तुल्यानां सद्भावे संसर्गी गृह्णीयात् वाक्याद- विशेषश्रुतेः । पूर्व्ववचने सर्व्वेषामेव प्रकृतत्वात् सर्व्वेषु चाक्षेपासम्भवात् । अतो न भ्रातृमात्र- विषयमिदं वचनमिति जीमूतवाहनः ॥ सोदरे त्वसंसृष्टिनि संसृष्टिन्यसोदरे च सति कतर- स्तावत् गृह्णीयात् । एवंसोदरासोदरयोः संसृ- ष्टयोः सद्भावे कतर इत्यत्र प्रथमत आह अन्योदर्य्यस्त्विति । अन्योदर्य्यः पुनः संसृष्टी सन् गृह्णीयात् नान्योदर्य्यमात्रः किन्तु असं- सृष्ट्यपि पूर्व्ववचनस्थसोदरपदानुषङ्गात् प्राप्तः सोदरश्च गृह्णीयात् । तेन एकत्र विषये पूर्ववचनोक्तसंसृष्टत्वसोदरत्वयोरेकशस्तुल्यत्वा- दुभयोर्विभज्य ग्रहणम् । तदुभयसत्त्वे च असो- दर्य्यस्यासंसृष्टिनोऽतुल्यरूपत्वात्नेति । द्वितीये आह संसृष्टो नान्यमातृज इति । सोदरे संसृष्टिनि सति अन्यमातृजः संसृष्ट्यपि न गृह्णीयात् । अर्थात्तत्र संसृष्टी सोदर एव गृह्णीयात् । संसृष्टत्वाविशेषेऽपि सोदरत्वेन तस्य बलवत्त्वात् । दायभागकारास्तु अन्योदर्य्यस्तु संसृष्टी सन् सत्यपि सोदरेऽसंसृष्टिनि धनं हरेत् नान्योदर्य्यः संसृष्ट्यपि गृह्णीयादिति पूर्व्वार्द्धस्यार्थः । तत्र किं सोदरस्तदानीं न गृह्णीयादेवेत्यपेक्षायामुत्तरार्द्धेनोक्तंअसंसृष्ट्यपि चादद्यात् सोदर इत्यनुषज्यते न संसृष्टोऽन्य- मातृजः केवलः । किन्तु उभाभ्यामेव विभज्य ग्रहीतव्यमित्याहुः । मिताक्षरादयोऽप्येवम् । याज्ञवल्क्यदीपकलिकायां शूलपाणिमहामही- पाध्यायस्तु । अन्योदर्य्यस्तु संसृष्टी नान्योदर्थ्यी धनं हरेत् । असंसृष्ट्यपि सोदर एव गृह्णीयात् न तु संसृष्टः सापत्न्यो भ्राता । संसृष्ट इति गभसंसृष्टः सोदर इति केचित् । नान्योदर्य्यो धनं हरेत् इति पाठे अन्योदर्य्यः सन् धनं न गृह्णीयात् इति व्याख्या असंसृष्टसोदरस्याधि- कारार्थमिदं वचनमतो न पुनरुक्तिरित्याहुः । रत्राकरप्रभृतयस्तु कल्पतरौ नान्योदर्य्यधनं हरे दिति पाठो दृश्यते स मूलभूतयाज्ञवल्क्यमिता क्षरापारिजातहलायुधग्रन्थेषु नान्योदर्य्यो धनं हरेदिति पाठदर्शनात् तदनुसारव्याख्यादर्श- नाच्च लिपिकरप्रमाद इत्याहुः । इति दाय- तत्त्वम् ॥
