संस्कारः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
संस्कारः, पुं, (सं + कृ + घञ् ।) प्रतियत्नः । अनुभवः । मानसकर्म्म इति मेदिनी ॥ न्याय- मते गुणविशेषः । स च त्रिविधः । वेगाख्य- संस्कारः १ अयं मूर्त्तपदार्थस्थायी । क्वचिद्वेग- जन्यः क्कचित्कर्म्मजन्यश्च । स्थितिस्थापक- संस्कारः २ अयं पृथिवीगुणः केषाञ्चिन्मते पृथि- व्यादिचतुःपदार्थगुणः । अयं अतिन्द्रियः स्पन्दनकारणञ्च । भावनाख्यसंस्कारः ३ अयं आत्मनः अतीन्द्रियगुणः । उपेक्षानात्मक- निश्चयजन्यः । अयं स्मरणप्रत्यभिक्षयोः कार- णञ्च ॥ * ॥ अस्य प्रमाणम् । “संस्कारभेदो वेगोऽथ स्थितिस्थापकभावने । मूर्त्तमात्रे तु वेगः स्यात् कर्म्मजो वेगजः क्वचित् ॥ स्थितिस्थापकमंस्कारः क्षितौ केचिच्चतुर्ष्वपि । अतीन्द्रियः स विज्ञेयः क्वचित् स्पन्देऽपि कारणम् ॥ भावनाख्यस्तु संस्कारो जीववृत्तिरतीन्द्रियः । उपेक्षानात्मकस्तस्य निश्चयः कारणं भवेत् ॥ स्मरणे प्रत्यभिज्ञायामप्यसौ हेतुरुच्यते ॥” इति भाषापरिच्छेदः ॥ * ॥ शुद्धिः अदृष्टविशेषजनककर्म्म । यथा । यद्यग्नि- स्थापनान्तरं कर्म्मकाले वृष्ट्यादिशङ्कया संस्फृ- ताग्निरन्यत्रानीयते तदा पुनर्भूसंस्ककारः कर्त्तव्यः । संमुह्य उपलिप्य उल्लिख्य उद्धृत्य अभ्युक्षयेत् एष संस्कारोऽनुगतोऽग्नौ भूयः । इति गृह्यान्तरात् । इति संस्कारतत्त्वम् ॥ * ॥ दशविधसंस्कारा यथा । विवाहः १ गर्मा- धानम् २ पुसवनम् ३ सीमन्तोन्नयनम् ४ जातकर्म्म ५ नामकरणम् ६ अन्नप्राशनम् ७ चूडाकरणम् ८ उपनयनम् ९ समावर्त्तनम् १० । यथा हारीतः । गर्भाधानवदुपेतो ब्रह्मगर्भं सन्दधाति पुंसवनात् पुंसीकरोति फलस्थापनात् मातापितृज पाप्मानमपोहति रेतोरक्तगर्भो- पघातः पञ्चगुणो जातकर्म्मणा प्रथममपोहति नामकरणेन द्वितीयं प्राशनेन तृतीयं चूडा- करणेन चतुर्थं स्नापनेन पञ्चमं एतैरष्टाभिः संस्कारैर्गर्भोपघातात् पूतो भवतीति । स्नान- मत्र समावर्त्तनरूपमिति कल्पतरुः । इति संस्कारतत्त्वम् ॥ * ॥ याज्ञवल्क्यः । “गर्भाधानमृतौ पुंसः सवनं स्पन्दनात् पुरा । षष्ठेऽष्टमे वा सीमन्तः प्रसवे जातकर्म्म च ॥ अहन्येकादशे नाम चतुर्थे मासि निष्क्रमः । षष्ठेऽन्नपाशनं माभि चूडा कार्य्या यथाकुलम् ॥ एवमेनः शमं याति बीजगर्भसमुद्भवम् ॥” इति मलमासतत्त्वम् ॥ * ॥ संस्कृतानामधिकारमाह याज्ञवल्क्यः । “असस्कृतास्तु संस्कार्य्या भ्रातृभिः पूर्व्वसंस्कृतैः भगिन्यश्च निजादंशाद्दत्त्वांशन्तु तुरीयकम् ॥” असंस्कृता भ्रातरो भगिन्यश्च पूर्वसंस्कृतैरुप- नीतैः । अन्यथा मन्त्रपाठानधिकारापत्तेःइत्यु- द्बाहतत्त्वम् ॥ एषां विवरणं तत्तच्छब्दे द्रष्टव्यम् । गरुडपुराणोक्तसंस्कारास्तत्रैव ९३ । ९४ । ९५ अध्यायेषु द्रष्टव्याः ॥ * ॥ अथ जीर्णदेवगृहादिसंस्कारफलम् । “अथ चेज्जीर्णसंस्कारविधिः पुण्यो महामुने ! देवतादिषु कर्त्तव्यो महाभोगफलेप्सुभिः ॥ मूलादष्टगुणं पुण्यं जीर्णसंस्कारतो भवेत् । तस्मादनाथजीर्णेषु कार्य्यं संस्करणं मुने ! । स्वकीयं परकीयं वा यथाविभवविस्तरैः ॥ स्वतो वा परतो वाद्य यस्तु संस्कुरुते सुरान् । स यावच्चन्द्रसूर्य्यौ गौस्तावत्कालं सुखी- भवेत् ॥ लोकेषु तेषु देवानां विरजस्केषु हृष्टधीः । यथा गोमेधयज्ञेषु पशुरोमसमाः समाः ॥ वसते दिवि हृष्टात्मा जीर्णसंस्कारकारकः । अनाथा वा सनाथा वा पूजनीयाः सदा सुराः ॥ इति देवीपुराणे पूजाविधिनामाध्यायः ॥
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
संस्कारः [saṃskārḥ], 1 Making perfect, refining, polishing; (मणिः) प्रयुक्तसंस्कार इवाधिकं बभौ R.3.18.
Refinement, perfection, grammatical purity (as of words); संस्कार- वत्येव गिरा मनीषी Ku.1.28 (where Malli, renders the word by व्याकरणजन्या शुद्धिः); R.15.76.
Education, cultivation, training (as of the mind); निसर्ग- संस्कारविनीत इत्यसौ नृपेण चक्रे युवराजशब्दभाक् R.3.35; Ku. 7.1.
Making ready, preparation.
Cooking, dressing (as of food &c.).
Embellishment, decoration, ornament; स्वभावसुन्दरं वस्तु न संस्कारमपेक्षते Dṛi. Ś. 49; Ś.7.23; Mu.2.1.
Consecration, sanctification, hallowing; संस्कारो नाम स भवति यस्मिञ्जाते पदार्थो भवति योग्यः कस्यचिदर्थस्य ŚB. on MS.3.1.3.
Impression, form, mould, operation, influence; यन्नवे भोजने लग्नः संस्कारो नान्यथा भवेत् H. Pr.8; Bh.3.84.
Idea, notion, conception.
Any faculty or capacity.
Effect of work, merit of action; फलानुमेयाः प्रारम्भाः संस्काराः प्राक्तना इव R.1.2.
The self-reproductive quality, faculty of impression; one of the 24 qualities or guṇas recognised by the Vaiśeṣikas; it is of three kinds: भावना, वेग, and स्थितिस्थापकता q .q. v. v.
The faculty of recollection, impression on the memory; संस्कारमात्रजन्यं ज्ञानं स्मृतिः T. S.
A purificatory rite, a sacred rite or ceremony; संस्कारार्थं शरीरस्य Ms.2.66; R.1.78; (Manu mentions 12 such Saṃskāras viz. 1. गर्भाधान, 2. पुंसवन, 3. सीमन्तोन्नयन, 4. जातकर्मन्, 5. नामकर्मन्, 6. निष्क्रमण, 7. अन्नप्राशन, 8. चूडाकर्मन्, 9. उपनयन, 1. केशान्त, 11. समावर्तन, and 12. विवाह; see Ms.2.26 &c.; some writers increase the number to sixteen).
Purification, purity.
A rite or ceremony in general.
Investiture with the sacred thread; मांसं मूत्रं पुरीषं च प्राश्य संस्कारमर्हति Mb.12.165.76.
Obsequial ceremonies.
A polishing stone; संस्कारोल्लिखितो महामणिरिव क्षीणो$पि नालक्ष्यते Ś.6.5 (where संस्कार may mean 'polishing' also). -Comp. -पूत a.
purified by sacred rites.
purified by refinement or education. -भूषणम् (speech) adorned by correctness. -रहित, -वर्जित, -हीन a. (a person of one of the three higher castes) over whom the purificatory ceremonies, particularly the threadceremony, have not been performed and who therefore becomes a Vrātya or outcast; cf. व्रात्य. -शब्दः a word which gains its currency owing to संस्कार; संस्कारशब्दा एते आहवनीयादयः ŚB. on MS.5.3.21.
