सामग्री पर जाएँ

संस्कारहीनः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

संस्कारहीनः, पुं, (संस्कारहीनः ।) व्रात्यः । इत्यमरः ॥ संस्कारहीनत्वकालमाह । यमः । “पतिता यस्य सावित्री दशवर्षाणि पञ्च च । ब्राह्मणस्य विशेषेण तथा राजन्यवैश्ययोः । प्रायश्चित्तं भवेदेषां प्रोवाच वदतां वरः ॥” तथा मार्कण्डेयः । “विप्रस्य षोडशाद्बर्षात् राज्ञो द्वाविंशतेः परम् । वैश्यस्याष्टाधिकादब्दात् सावित्रीपतनं भवेत् ॥” विष्णुधर्म्मोत्तरे । “षोडशाब्दा हि विप्रस्य राजन्यस्य द्विविं- शतिः । विंशतिः सचतुर्थी च वैश्यस्य परिकीर्त्तिता ॥ सावित्री नातिरिच्येत अत ऊर्द्ध्वं निवर्त्तते ॥” इति मलमासतत्त्वम् ॥

"https://sa.wiktionary.org/w/index.php?title=संस्कारहीनः&oldid=173465" इत्यस्माद् प्रतिप्राप्तम्