संस्कृतः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
संस्कृतः, त्रि, (सं + कृ + क्तः ।) कृत्रिमः । इत्य- मरः ॥ करणेन निर्वृत्तः कृत्रिमा घटादिः । इति भरतः ॥ पक्वः । स्वतो गुणान्तराधानम् । इत्यमरटीकायां स्वामी ॥ शस्तः । भूषितः । इति मेदिनी ॥ शोधितः । इति जटाधरः ॥ (यथा, देवीभागवते । १ । २ । ११ । “पुराणमुत्तमं पुण्यं श्रीमद्भागवताभिधम् । अष्टादशसहस्राणि श्लोकास्तत्र तु संस्कृताः ॥”)
