संस्थः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
संस्थः, पुं, (संतिष्ठते स्वपरराष्ट्रेषु इति । सं + स्था + कः ।) चरः । इति मेदिनी ॥ निज- राष्ट्रकः इति हेमचन्द्रः ॥ (यथा, कामन्द- कीये । १२ । ३६ । “सस्थाः स्युश्चारसंस्थित्यै दत्तदायाः शुभा- शयाः ॥”)
संस्थः, त्रि, (संतिष्ठते इति । सं + स्था + कः ।) अवस्थितः । इति मेदिनी ॥ (यथा, हरिवशे भविष्यपर्व्वणि । ८ । ६६ । “यदा मे मरणं भूयात् तदा मा भूत् स्मृतिभ्रमः । दिने दिने क्षणं चित्तं त्वयि संस्थं भवत्विति ॥”) मृतः । इति शब्दरत्नावली ॥
