सामग्री पर जाएँ

सकर्म्मक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सकर्म्मकः, पुं, (कर्म्मणा सह वर्त्तमानः । कप् ।) कर्म्मयुक्तधातुः । कर्म्मान्वयिक्रियार्थकः । यथा । क्वचित् सकर्म्मकाद्धातोर्भावेऽपि क्रियाव्याप्ति- रस्ति । यथा । कां दिशं गन्तव्यम् । इति मुग्ध- बोधटीकायां दुर्गादासः ॥ (कर्म्मयुक्ते, त्रि । यथा, भागवते । ५ । २० । ३२ । “तद्वर्षपुरुषा भगवन्तं ब्रह्मरूपिणं सकर्म्मकेण कर्म्मणाराधयन्ति ॥” “सकर्म्मकेण ब्रह्मसालो- क्यादिसाधनेन ।” इति तट्टीका ॥)

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सकर्म्मक¦ त्रि॰ सह कर्मण सहस्य सः कप्। ह्याकरणोक्तेकर्मयुक्तक्रियाबोधके धातौ
“फलव्यापारयोरेकनिष्ठता-यामकर्मकः। धातुस्तयोर्धर्मिभेदे सकर्मक उदाहृतः” इत्युक्तदिशा धातोः सकमकत्वमवसेयम्।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सकर्म्मक¦ m. (-कः) (In grammar,) The transitive verb. E. स with, कर्म्म act, कन् added.

"https://sa.wiktionary.org/w/index.php?title=सकर्म्मक&oldid=381421" इत्यस्माद् प्रतिप्राप्तम्